________________
एष वन्ध्यासुतो यातीत्यादि वा 'न' नैव, म्रियतेऽनेन राजादिविरुद्धेनोचारितेनेति मर्म तद्गच्छति वाचकतयेति मर्मगं.13 वचनमिति सर्वत्र शेषः, अतिसङ्क्लेशोत्पादकत्वात् तस्याः, अत्राह च-"तहेव काणं काणत्ति, पंडगं पंडगत्ति वा ।
वाहियं वावि रोगित्ति, तेणं चोरोत्ति नो वए ॥१॥ एएणऽण्णण अटेणं, परो जेणुवहम्मई । आयारभावदोसण्णू, Pण तं भासेज पण्णवं ॥२॥" 'आत्मार्थम् ' आत्मप्रयोजनं 'परार्थ वा परप्रयोजनम् 'उभयस्सत्ति आत्मनः परस्य
च, प्रयोजनमिति गम्यते 'अंतरेण वत्ति विना वा प्रयोजनमित्युपस्कारः, भाषादोषं परिहरेदित्यनेनैव गते पृष्टविषयत्वादस्यापौनरुक्त्यं, यद्वा भाषादोषो जकारमकारादिरेव तत्र गृह्यत इति न दोषः, सूत्रद्वयेन चानेन वाग्गुप्त्यभिधानतश्चारित्रविनय उक्त इति सूत्रार्थः ॥ २५ ॥ इत्थं खगतदोषपरिहारमभिधायोपाधिकृतदोषपरिहारमाहसमरेसु अगारेसुं, गिहसंधिसु अ महापहेसु । एगो एगित्थीए सद्धिं, नेव चिट्रेन संलवे ॥२६॥ (सूत्रम्)
__ व्याख्या-'समरपु' खरकुटीपु, तथा च चूर्णिकृत्-'समैरं नाम जत्थ हेट्टा लोयारा कम्मं करेंति' उपलक्षणतत्वादस्यान्येष्वपि नीचास्पदेषु 'अगारेपु' गृहेषु 'गृहसन्धिषु च' गृहद्वयान्तरालेषु च 'महापथेपु' राजमार्गादो, किमित्याह-एकः' असहायः एका-असहाया सा चासौ स्त्री च एकस्त्री तया 'सार्द्ध' सह 'नैव तिष्ठेत' असंल
१ तथैव काणं काण इति, पण्डकं पण्डक इति वा । व्याधिमन्तं वाऽपि रोगी इति, स्तेनं चौर इति नो वदेत् ॥श। एतेनान्येनार्थेन, परो! येनोपहन्यते । आचारभावदोषज्ञो, न तद्भाषेत प्रज्ञावान् ॥२॥२ समरं नाम यत्राधस्तात् लोहकाराः कर्म कुर्वन्ति ।
Jain Educa
Hational
For Privale & Personal use only
A
jainelibrary.org