SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ RECOROSALCCASSCORRECCARDAS यथा हि अस्य खयंदमनान्महागुणः तथा मुक्त्यर्थिनोऽपि विशिष्टनिर्जरातः, इतरथा त्वकामनिर्जरातो न तथेति । सूत्रार्थः ॥ १६ ॥ गुवेनुवृत्त्यात्मकं प्रतिरूपविनयमाहपडिणीयं च बुद्धाणं, वाया अदुव कम्मुणा।आवि वा जइवा रहस्से, नेव कुज्जा कयाइवि ॥१७॥(सूत्रम्)। व्याख्या-'प्रत्यनीकम्' इति प्रतिकूलं, चः पूरणे, चेष्टितमित्युपस्कारः, भावप्रधानत्वाद्वा निर्देशस्य प्रत्यनीकत्वं, केषाम् ?-'बुद्धानाम्' अवगतवस्तुतत्त्वानां गुरूणामितियावत् , कया ?-वाचा, किं त्वमपि किञ्चिजानीषे ? इत्येवंरूपया विपरीतप्ररूपणायां प्रेरितस्त्वयैवैतदित्थमस्माकं प्ररूपितमित्याद्यात्मिकया वा, अथवा 'कर्मणा' संस्तारकातिक्रमणकरचरणसंस्पर्शनादिना 'आविः' जनसमक्षं प्रकाशदेश इतियावत् , यदिवा 'रहस्ये विविक्तोपाश्रयादौ 'न' इति निषेधे 'एवः' अवधारणे, स च 'शत्रोरपि गुणा ग्रायाः, दोषावाच्या गुरोरपीति कुमतनिराकरणार्थः, कुर्यात्' इति विदध्यात् , 'कदाचित्' परुषभाषणादावपि इति सूत्रार्थः ॥ १७ ॥ पुनः शुश्रूषणात्मकं तमेवाहण पक्खओण पुरओ, व किच्चाण पिटुओ। न जुंजे उरुणा ऊरु, सयणे ण पडिस्सुणे ॥१८॥(सूत्रम्) ___ व्याख्या-'न पक्षतः' दक्षिणादिपक्षमाश्रित्य, उपविशेदिति सर्वत्रोपस्कारः, तथोपवेशने तत्पतिसमावेशतः तत्साम्यापादनेनाविनयभावात् , गुरोरपि वक्रावलोकने स्कन्धकन्धरादिवाधासम्भवात् , न 'पुरतः' अग्रतः, तत्र Jain Educa t ional For Privale & Personal use only X ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy