________________
आवश्यकनियुक्तरव
चूर्णिः
वन्दने दृष्टान्ताः केषां वन्दनं न कर्त्तव्यं निगा.
यित्वा विकाले बहिर्देवकुले स्थिताः, रात्रौ तेषां ज्ञानं, प्रगेऽनिवृत्त्या मातुलाऽऽगमनं, पूर्व कषायतो द्रव्यवन्दनं, ज्ञाते भाववन्दनतः शीतलस्यापि केवलज्ञानं । एकः क्षुल्लकः सल्लक्षण आचार्यैः कालं कुर्वद्भिः पदे स्थापितो गीतार्थसाधूनां मूले पठति, सोऽन्यदा मोहनीयोदयाद्भग्नपरिणामः साधूषु भिक्षां गतेषु बहि मिमिषादेकदिशा गच्छन् वने तिलकबकुलादिषु सत्स्वपि शमीपूजनकं जनं दृष्ट्वा पूज्यैः पूजितोऽयमिति च श्रुत्वा शमीझुक्खरसमोऽहं, कुतो मे श्रामण्यं ?, रजोहरणादिचितिगुणेन मां पूजयन्तीति विमृश्याऽऽगतः साधूनामालोचितवान् , तस्य पूर्व द्रव्यचितिः पश्चाद्भावचितिः । कृष्णवासुदेवस्य श्रीनेम्यागमने सर्वसाधून् द्वादशाव-वन्दनेन वन्दमानस्य भावकृतिकर्म, वीरकस्य द्रव्यकृतिकर्म । एकस्य राज्ञो द्वौ सेवको, ग्रामसीमनिमित्तं राजकुलं गच्छन्तौ पंथि साधुं दृष्ट्वा ध्रुवा सिद्धिरित्येको मावेन वन्दितवान् अपरस्तूद्घट्टनं कुर्वन् व्यवहारे जितः, [तस्य द्रव्यपूजा इतरेण ] भावपूजा कृता । श्रीनेमिः प्रथमं वन्दितः पालकेन द्रव्यतः, शाम्बेन भावतः ॥१११८ ॥ यदुक्तं वन्दनं कर्त्तव्यं कस्य वेति, तत्र येषां न कर्त्तव्यं तानाहअसंजयं न वंदिजा मायरं पियरं गुरुं। सेणावई पसत्थारं रायाणं देवयाणि य॥ १११९ ॥
असंयता:-अविरतास्तान वन्देत, कान् ? मातरं तथा पितरं गुरुं-पितामहादिलक्षणं, असंयतमिति सर्वत्र योजनीयं, | सेनापति-गणराजं प्रशास्तारं-धर्मपाठकादिलक्षणं, राजानं-बद्धमुकुटं देवतानि च न वन्देत ॥ १११९ ॥ अथ यस्य वन्दनं कर्त्तव्यं स उच्यते
Jain Education
N
a
For Private & Personel Use Only
बाwww.jainelibrary.org