SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 64 आवश्यक * अथ तृतीयं वन्दनाध्ययनम् ॥ नियुक्तरवचूणिः । नामनिष्पन्ने निक्षेपे वन्दनाध्ययनमिति, तत्र वन्दनस्य पर्यायशब्दानाह वंदणचिइकिइकम्मं पूयाकम्मं च विणयकम्मं च । कायवं कस्स व केण वावि काहे व कइखुत्तो?॥१११६॥ कुशलकर्मणश्चयनं चितिः, कारणे कार्योपचाराद्रजोहरणाद्युपधिसंहतिः, कृतिः-अवनामादिकरणं, वन्दनचितिकृतय एव कर्म-क्रिया, कर्मशब्दः प्रत्येकं योज्यः, पूजा-प्रशस्तमनोवाकायचेष्टा, आह-वन्दनं कर्त्तव्यं कस्य वा केन वापि कदा वा कतिकृत्वो वा ? ।। १११६ ॥ कइओणयं कइसिरंकाहिंच आवस्सएहि परिसुद्धं । कइदोसविप्पमुकं किइकम्मं कीस कीरइ वा?१११७ कत्यवनतं तद्वन्दनं कर्त्तव्यं, कतिशिरः, कतिभिर्वा आवश्यकैः परिशुद्धं, कतिदोषविप्रमुक्तं, कृतिकर्म, 'किस'त्ति किमिति वा क्रियते । तत्र वन्दनकर्मादीनि द्विधा-द्रव्यतो भावतश्च ॥ १९१७॥ द्रव्यमावभेदप्रचिकटयिषया दृष्टान्तानाह। सीयले खुड्डए कण्हे सेवए पालए तहा। पंचेते दिट्रंता किइकम्मे होति णायवा ॥ १११८ ॥ ___ एकस्य राज्ञः पुत्रः शीतला प्रवनिता, तस्य भगिनी अन्यराज्ञे दत्ता, सा स्वसुतचतुष्कस्य शीतलाचार्यप्रशंसां करोति । पुत्राः स्थविरान्ते प्रव्रज्य बहुश्रुता गुरुमापृच्छथ मातुलवन्दनाय एकस्मिन्पुरे श्रुत्वा गताः । मध्ये प्रवेष्टुकामश्राद्धाय कथ वन्दनपर्यायाः कस्य वन्दनं कर्त्तव्यमित्यादि दृष्टान्ताश्च नि० गा. १११६. १११८ Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy