SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट आवश्यक निर्युक्तेरखचूर्णिः । तमाकार्य नृपोऽमाक्षी - वृत्तान्त स्वं स शिष्टवान् । तुष्टो राजा ततः श्रेष्ठी - पदे स्थापयति स्म तम् ॥२६ ॥ ततः पुरे स मुख्योऽभू - द्राजमान्यो महर्द्धिकः । प्रत्याख्यानमभूदेव - मस्यामुत्र फलपदम् ॥२७॥ ततो गुरुसमायोगे, स्वस्य पूर्वभवे श्रुते । सद्बोधि प्राप्य सद्धर्म, कृत्वा स स्वर्गमासदत् ॥२८॥ प्रत्याख्यानप्रधानफलमाहपच्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिष्टुं । पत्ता अर्थतजीवा, सासयसुक्ख लहुं मुक्खं ॥१६३५ ॥ स्पष्टा, एतच्च फलं पागुक्तमपि शास्त्रान्ते मङ्गलार्थत्वादुक्तम् । उक्तोऽनुगमो व्याख्यालक्षणः, अथ नयाः, तत्रैके ज्ञाननयाः एके च क्रियानयाः, ज्ञाननयमतमाह-- नायंमि गिहियब्वे, अगिव्हियबंमि चेव अर्थमि। जइयव्वमेव इह जो, उवएसो सो नओ नाम ॥१६३६।। ज्ञाते गृहीतव्ये ऐहिके-म्रश्चन्दनाङ्गनादौ, आमुष्मिके सम्यग्दर्शनादौ, अगृहीतव्ये ऐहिके-विषशस्त्रकण्टकादौ, आमुष्मिके मिथ्यात्वादी, चकारादुपेक्षणीये ऐहिके तृणादौ, आमुष्मिके राज्यादौ, यतितव्यमेवेति य उपदेशः स नयो नाम, ततश्च सम्यग्ज्ञानाच्च क्रियायां प्रवर्तितव्यं, मिथ्याज्ञानात्प्रवृत्तस्य फलविसंवादात् , उक्तं च-' विज्ञप्तिः फलदो पुंसां न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य कलासंवाददर्शनात् । तथा सक्रियावतोऽपि केवलज्ञानं विना मुक्तेरभावात् ज्ञानमेव प्रधानमिति न क्रिया। ॥३८॥ Jan Education Internet For Private Personal Use Only Haw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy