________________
परिशिष्ट
आवश्यक निर्युक्तेरखचूर्णिः।
|
स्पष्टे, नवरं गुडस्य पिण्डस्य पुदला:-अवयवाः ततश्च पिण्डगुडस्य नवनीतस्य आमलकपमाणखण्डयुक्तं संसृष्टमेतच्च गृहस्थसंसृष्टं आचामाम्लवतोऽनाचीर्ण ।' पडुच्चमक्खिएण' ति च नात्र पठनीयं, म्रक्षितमपि निर्विकृतकस्यैव कल्प्यते नाचामाम्लस्य । आह परः-एकासनकस्थानकनिर्विकृत्याचामाम्लचतुर्थषष्ठाष्टमेषु पारिष्ठापनिकाकारः पठितः तत्कीदृशस्य पारिष्ठापनिक देयं ?, गुरुराह
आयंबिलणायंबिल-चउत्थाई वालवुड्सअसह। अहिंडयहिंडियए पाहुणनिमंतणा बलिया॥१६२४॥
एक आचामाम्लबान अनाचामाम्लवन्तोऽन्ये, तत्र पारिष्ठापनिकं आचामाम्लवतो न देयं, चतुर्थभक्तिकस्य देयं, तत्रापि वालद्धसहासहाहिण्डकाहिण्डकवास्तव्यप्राघुणकानामावलिकाक्रमेग निमन्त्रणा कार्या । उत्तरोत्तराभावे पश्चिमानुपूर्व्या देयमित्यर्थः । एवमेकासनादिषप्यावलिकाक्रमो ज्ञेयः । पारिष्ठापनिकापाचुर्ये सर्वेषां देयं, दशमभक्तिकादीनां च न देयं, तेषामुत्कतृत्वात् ॥ १६२४ ॥
तच्च किंस्वरूपं देयमित्याहविहिगहियं विहिभुतं, उव्वरियं तह गुरूहि भणिओ य । ताहे बंदणपुवं, भुजह सो संदिसावेउं ॥१६२५।।
विधिना अणुर्वि ( अलुब्धेन ) गृहीतं, विधिना अशठैर्भुक्तं, उद्धृतं गुज्ञिया बन्दनकं दत्वा पारिष्ठापनिक सन्दिश्य भोक्तुं कल्प्यते ॥ १६२५ ॥ अत्र चतुर्मशी
Jain Education Intel
For Private & Personel Use Only
www.jainelibrary.org