________________
परिशिष्ट
आवश्यकनिर्युक्तेरखचूर्णिः ।
" एगासणं पच्चक्खाइ दुविहं तिविहं चउन्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं सागारियागारेण आउंटणपसारेणं गुरुअब्भुटाणेणं पारिद्वावणियागारेण महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ। ____एकं सकृदशनं भोजनमेकं वा आसनं पुताचलनतो यत्र तदेकाशनं एकासनं वा । अत्राष्टावाकाराः, आद्यावन्त्यौ चाकारौ प्राग्वत् , सागारियागारेणं-सहागारेण वर्तते इति सागारिको-गृहस्थः स एवाकारः सागारिकाकारः, साधो ञानस्य चले सागारिके आगते क्षणं प्रतीक्षणं, स्थिरे तु ततः स्थानादन्यत्रोपविश्य भुञानस्यापि न भङ्गः, गृहस्थस्य तु येन दृष्ट भोजनं न जीर्यति तदादिः सागारिकः । 'आउंटणपसारेणं' आकुश्चनं जवादेः सङ्कोचनं प्रसारणं तस्यैव ऋजूकरणं । आकुञ्चने प्रसारणे वाऽसहिष्णुतया क्रियमाणे किंचिदासनं चलति तेन न भङ्गः, “गुरुअब्भुट्ठाणेणं " गुरोः-अभ्युत्थानास्याचार्यस्य प्राघुर्णकस्य वा अभ्युत्थानं भुञानेनापि कार्य नात्र भङ्गः। 'पारिद्वावणियागारेण' परिष्ठापनं सर्वथा त्याजयितुं प्रयोजनमस्य परिष्ठापनिक अधिकीभूतं प्रत्याख्यातवस्तु तदेवाकारः परिष्ठापनिकाकारः, तत्र हि त्यज्यमाने महान् दोषः भुज्यमाने च गुर्वाज्ञया गुणस्तद्भुञानस्यापि न भङ्गः।' बोसिरइ ति' अनेकाशनं परिहरति ।
सत्तेगट्ठाणस्स उ, अद्वैवायंविलंभि आगारा । पचेव अब्भत्तट्टे, छप्पाणे चरिम्मि चत्तारि ॥ १६१४ ।। अथैकस्थानकम्
॥२७॥
Jain Education Interie
For Private & Personal Use Only
Mr.jainelibrary.org