________________
परिशिष्ट
आवश्यक- नियुक्तखचूर्णिः। ॥२६॥
तारपूर्वपश्चिमरेखेव छायेति ग्राह्या तां पौरुषी प्रत्याख्याति, अत्र पडाकारा:-प्रथमौ पूर्ववत् , अन्यत्र प्रच्छन्नकालात् दिग्मोहात् साधुवचनात् , सर्वसमाधिमत्याकाराच्च । प्रच्छन्नकालता च कालस्य मेघेन रजसा गिरिणा चान्तरितत्वात् सूर्यस्यादर्शने, तेनापूर्णामपि पूर्णा पौरुषी ज्ञात्वा भुञ्जानस्य न भङ्गः, ज्ञात्वा भुक्तेनापि तथैव स्थातव्यं यावत्पौरुषी पूर्यते ततः परं | भोक्तव्यमन्यथा तु भङ्गः। एवं दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति तदा पौरुष्यामपूर्णायामपि भुञ्जानस्य न भङ्गः, मोहविगमे तु पूर्वविधिः । साधुवचनम्-उद्घाटा पौरुषीत्यादिकं शंतिकारणं (?) तच्छुत्वा भुञ्जानस्य न भङ्गः, भुञ्जानेन तु | ज्ञातेऽन्येन वा कथिते प्राविधिक कार्यः । सर्वसमाधिः-गाढातङ्कादौ च तत्सत्यय आकारः प्रत्याख्यानापवादः भवति, अयमभिप्रायः-आकस्मिकतीव्रशूलादिदःखोद्भवातरौदध्यानोपशमनाय सर्वेन्द्रियसमाध्यर्थ पथ्यौषधादिकुर्वाणस्यापूर्णायामपि पौरुष्यां न भङ्गो जायते, जाते तु समाधौ पूर्वविधिः।
अथ पूर्वाद्धपत्याख्यानं तच्च पौरुपीवत केलं ' महत्तरागारेण' मित्यधिक, [शेष] पूर्ववत् , पूर्वाधं-दिनस्याचं पहरद्वयं तत्प्रत्याख्याति, षडाकाराः पाग्वत् , ' महत्तरागारेणं ति' महत्तरं प्रत्याख्यानानुपालनादपि बहुतरनिर्जरानिमित्तं पुरुषान्तरासाध्यं ग्लानचैत्यसंघादिकार्य तदेवाकारोऽपवादो महत्तराकारस्तेनागपि भुञानस्य न भङ्गः यच्चात्रैव महत्तराकार पाठो न नमस्कारसहितादौ तत्र कालमहत्त्वाल्पत्वहेतुः।
अथैकाशनम्
॥२६॥
Jain Education in
For Private & Personel Use Only
alww.jainelibrary.org