________________
परिशिष्ट
आवश्यक परिमितीकृतः संसारो यैस्ते परीताः प्रत्येकशरीरा वा, एष्वप्यग्रे केवलस्य वक्ष्यमाणत्वादेतेऽपि मनुष्या एवेह ग्राह्याः, अतोऽ. नियुक्ते
मोष्वप्याद्या मतिज्ञानिनः सन्त्येव अन्ये भाज्याः, साधारणास्तु न द्विधापि । पर्याप्तद्वारे-पपर्याप्तिपर्याप्ता आधाः सन्त्येव रवचूर्णिः।
अन्ये भाज्याः, अपर्याप्तकास्त्वाद्याः सन्त्येव नान्ये । सूक्ष्मद्वारे-सूक्ष्मा अन्नवान्तादिभवाः संमूर्छनमनुष्याः तेषु न द्विधापि, ॥ २२॥ बादरेषु तु केवलज्ञानस्याप्यभिधानात्तेऽत्र गर्भजमनुष्या ज्ञेयाः, अतस्तेषुमतिज्ञानिन आद्याः सन्त्येव अन्ये भाज्याः। संज्ञिद्वारे
संज्ञिनो वादरवत, असंज्ञिनस्त्वाद्याः सन्त्येव नान्ये । भवद्वारे - भवसिद्धिकाः संशिवत, अभवसिद्धिका न द्विधापि । चरमद्वारे - भविष्यच्चरमभवा आधाः सन्त्येव अन्ये भाज्याः, अचरमास्तु न द्विधापि । कृता मतिज्ञानस्य सत्पदमरूपणा ।
द्रव्यममाणं मतिज्ञानिनां सङ्ख्या, तत्राद्या जघन्यतः क्षेत्रपल्योपमासङ्ख्येयभागमदेशराशितुल्याः, उत्कृष्टतस्त्वेभ्यो विशेषाKaiधिकाः। अन्ये जातु स्युर्नवा, यदि स्युनधन्येनैको द्वौ त्रयो वा, उत्कृष्टतः क्षेत्रपल्योपमासरुङ्येयभागमदेशराशिमानाः ।
क्षेत्रं मतिज्ञानिनां लोकस्यासङ्ख्येयभागः, एकस्य तु इलिकागत्या सर्वार्थसिद्धौ गच्छत आगच्छतो वा सप्त चतुर्दशभागाः सप्त रज्जव इत्यर्थः । अधस्तु षष्ठयां गच्छतः प्रत्यागच्छतश्च पञ्च सप्त ( चतुर्दश ) भागाः, सप्तम्यां सम्यग्दृष्टेर्गत्यभावात् । स्पर्शना क्षेत्रादधिका, यथा परमाणोरेकप्रदेश क्षेत्रं, सप्तप्रदेशा स्पर्शना । कालो मत्युपयोगमाश्रित्य जघन्य उत्कृष्टश्च एकस्य
161॥२२
Jain Education Intel
For Private & Personel Use Only
Taw.jainelibrary.org