________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
॥ २१ ॥
Jain Education International
अथ सत्पदप्ररूपणादिद्वारैर्मतिज्ञानं गत्यादिषु मार्गयेत्, तत्र गतौ चतुर्विधायामपि मतिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति प्रतिपद्यमानास्तु कदाचिद्भवन्ति वा न वा । इन्द्रियद्वारे पञ्चेन्द्रियेष्वाद्याः सदैव स्युर्न वा । द्वित्रिचतुरिन्द्रियेष्वविरसम्यग्दृष्टेः सम्यक्त्वं वमत उत्पादादपर्याप्तकावस्थायामाद्याः सम्भवन्ति नान्ये, एकेन्द्रियेषूभयाभावः । काये साख्ये आद्याः सन्ति सदैव इतरे स्युर्नवा शेषकायेषूभयाभावः । योगे त्रिषु योगेषु समुदितेषु पञ्चेन्द्रियवत्, केवलकाययोगे तूभयामात्रः । वेदे - त्रिष्वपि वेदेषु आयाः सन्त्येव अन्ये स्युर्नवा । कषायेषु अनन्तानुबन्धिषूभयाभावः शेषेषु पञ्चेन्द्रियवत्, asure आधासु विसृष्वाद्याः सन्ति नान्ये, शेषासु तिसृषु पञ्चेन्द्रियवत् । सम्यक्त्वद्वारे आद्या एव नापरे, सम्यग्दर्शनमतिश्रुतानां युगपल्लाभात् । ज्ञानद्वारे - मतिश्रुतावधिमनोज्ञानेषु आया एव नापरे, केवलज्ञाने तु नाद्या नाप्यन्ये, तस्मिन्सति छाद्मस्थिकज्ञानाऽभावात् । मत्याद्यज्ञानेष्वपि नाद्या नान्ये द्वयेषामप्यघटनात् । दर्शनद्वारे - चक्षुदर्शनेऽचक्षुर्दर्शने च दर्शनलब्धिसंपन्नाः आद्याः सन्त्यैव अन्ये भाज्याः, अवधिदर्शने त्वाया एव नान्ये, केवलदर्शने न द्विधापि । संयतद्वारे - आद्या एव नान्ये | उपयोगः-साकारोऽनाकारश्च तत्र साकारोपयोगे - आद्याः सन्त्येव, अन्ये भाज्याः । अनाकारोपयोगे - आद्या एव नान्ये, " साओ लद्धीओ सागारोवओगोवउत्तस्स भवंती "ति वचनात् । आहारका आधाः सन्त्येव अन्ये भाज्याः । अनाहारका विग्रहraौ आद्याः सन्त्येव नान्ये इति । भाषकद्वारे - भाषालब्धिसम्पन्ना आद्याः सन्त्येव अन्ये भाज्याः, तल्लन्धिशून्याश्च न द्विधापि । परीचद्वारे अनेकार्थत्वाद्धातूनामिति दानार्थोऽपि दाधातुः परिपूर्वोऽत्र संख्यावाची तेन परीतः
For Private & Personal Use Only
परिशिष्ट
२
॥ २१ ॥
w.jainelibrary.org