SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट आवश्यकनियुक्तेरचचूर्णिः । कतिभिस्समय कश्चतुर्दशरज्ज्वात्मको भाषया शब्दपुद्गलरूपया निरन्तरं तु भवति स्पृष्टः, लोकस्य च कतिभागे कियस्पमाणे भागे कतिभागो भवति भाषायाः ? ॥१०॥ उत्तरमाहचऊहिं समएहि लोगो, भासाए निरंतरं तु होइ फुडो। लोगस्स य चरमंते, चरमंतो होइ भासाए ॥११॥ चतुर्भिः समयैरिति भणनात् त्रिभिः पञ्चभिः समयैरित्यपि ज्ञेयम् , तुलामध्यग्रहणवत् , तत्र त्रिभिः स्पृष्ट उच्यते-लोकमध्यस्थमहाप्रयत्नवक्तृनिसृष्टानि वाग्द्रव्याणि सूक्ष्मत्वादबहुत्वाच्चानन्तगुणवृध्ध्या वर्धमानानि प्रथमसमय एव दण्डाकाराणि षट्सु दिक्षु लोकान्तमा नुवन्ति, जीवपुद्गलयोरनुश्रेणिगतिरितिवचनात् , द्वितीयसमये त एव षट् दण्डाश्चतुर्दिशमेकैकशो वर्धमाना षण्मन्थाना भवन्ति, तृतीयसमये त्वन्तरालपूरणात्पूर्णो लोकः स्यात् । यदा तु दिगन्ते नाडीबहिःस्थितो वक्ता कश्चिद्देवो वक्ति तदाधसमये चतुरगुलबाहल्यो रज्ज्वायामो भाषाणुराशिदण्डाकारः संमुखदिगन्ते लगति, द्वितीयसमये चतु. रङ्गुलबाहल्यो रज्जुविस्तारः उधिश्चतुर्दशरज्ज्वायामः कपाटाकारः, तिर्यग्लोके तु दिग्द्वयाणुनिर्गमे स्थूलाकारः स्यात्, तृतीयेतूर्धाधःकपाटयोमन्थत्वं चतुर्थे त्वन्तरालपूरणं, एवं चतुर्भिस्समयलेोकः पूर्यते । यदा तु विदिशि स्थितो वक्ति तदैकसमयेन विदिशो दिशि, द्वितीयसमयेन नाडी पविशति, अन्यस्त्रिभिः माग्वल्लोकमापूरयति एवं पञ्चभिः पूर्णों भवति । 'भासाए' इति भाषाया लोकव्यापिन्याः ॥११॥ Jain Education Intel TE For Private & Personel Use Only M ainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy