________________
आवश्यक नियुक्तरवचूर्णिः।
यत्र प्रथम समये वाग्द्रव्यनिसर्गस्य चरमसमये च वाग्द्रव्यादानस्य तदैकान्तरं, मध्यमसमयेषु च मतिसमयं शुमाशुभकर्मादाननिस- परिशिष्टगैक्रियावत् उत्पादव्ययक्रियावत् अङ्गुरयाकाशदेशसंयोगविभागक्रियावच्च वाग्द्रव्यादाननिसर्गरूपं युगपत् क्रियाद्वयं भवति ॥७॥
गृह्णाति कायिकेनेत्युक्तं स च काययोगः पञ्चधा तत्केन गृह्णातीत्याहतिविहंमि सरीरम्मि, जीवपएसा हवंति जीवस्स । जेहि तु गिण्हह गहणं, तो भासइ भासओ भासं ॥८॥
त्रिविधे शरीरे जीवस्यापृथग्भूताः प्रदेशा जीवपदेशा भवन्ति जीवस्य न तु शरीरवत् पृथग्भूताः यैस्तु गृह्णाति, तुशब्दो विशेषणे न सदैवादत्ते किन्तु आदानपरिणामे सति ग्रहणं, शब्दद्रव्यनिवहमादत्ते, ततो भाषते भाषको भाषां, भाषेत्यधिकमिति चेत, न, भाष्यमाणैव हि भाषा, न.पूर्व पश्चाद्वेति ज्ञापनाय भाषाग्रहणम् ॥८॥ त्रिविधे शरीर इत्युक्तं कि तस्त्रैविध्यमित्याह
ओराल(लिय)वेउब्विय-आहारो गिण्हई मुअइ भासं । सच्चं मोसं सच्चा-मोसं च असच्चमोसं च॥९॥
औदारिकं शरीरं विद्यते यस्य 'अभ्रादित्वान्मत्यर्थीयेऽचि' औदारिका, एवं वैक्रियः आहारकश्च गृह्णाति मुश्चति भाषां भाषात्वपरिणतद्रव्यसंहति, किंरूपां ? सत्यां मृषां सत्यामृषां 'मिश्रां' असत्यामृषां-आगच्छ देवदत्तेत्यादिकां । भाषाव्याप्तिपश्नस्वरूपमाहकईहिं समएहिं लोगो, भासाइ निरंतरं तु होइ फुडो। लोगस्स य कहभागे, कहभागो होइ भासाए ॥१०॥
Al॥१८॥
Jain Education Intel
For Private & Personel Use Only
jainelibrary.org