________________
परिशिष्ट
आवश्यक नियुक्तरवचूर्णिः।
॥१७॥
यभागागतं, मनसस्तु केवलज्ञानस्येव क्षेत्रतो न विषयपरिमागं सर्वगतत्वात् ॥५॥ 'स्पृष्टं शणोति शब्द'मित्युक्तं तत्कि भाषकोत्सृष्टान्येव शब्दद्रव्याणि गृह्णाति उतान्यानि तद्वासितानि मिश्राणि वेत्याशङ्कयाह
भासासमसेढीओ, सईज सुणइ मीसयं सुणई । वीसेढी पुण सई, सुइ नियमा पराघाए ॥६॥
भाष केण शब्दतयोत्सृज्यमाना शब्दपुद्गलसंहतिर्भाषा, तस्याः समश्रेणीतः, षट्सु दिक्षु समपङिक्तगतः श्रोता ये शब्द शृणोति तं भाषकोत्सृष्टशब्दपुद्गलभावितान्तरालस्थशब्दद्रव्यमिश्रं श्रोत्रेन्द्रियेणादत्ते, विश्रेणिगतः-विदिग्गतः पुनः पराघाते सति, सप्तमी तृतीयार्थे, भाषकोत्सृष्टशब्दद्रव्यैः पराघातेन अभिघातेन वासितमेव शब्दपुद्गलराशि शृणोति न पुनरुत्सृष्ट मिश्रं वा तेपामनुश्रेणिगमनात प्रतिस्खलनाभावाच्च ॥ ६ ॥
केन पुनर्योगेन वाग्द्रव्याणि गृह्णाति उत्सृजति वेत्याशङ्कयाहगिण्हह य काइएणं, निसिरह तह वाइएग जोगेणं । एगंतरं च गिहा, निसिरह एगंतरं चेव ॥ ७॥
गृह्णाति-पादत्ते वाग्द्रव्याणि, च एवार्थे स चाग्रे योज्यते, कायिकेनैव, तथेत्यनन्तरं निसृजति-मुश्चति वाचिकेन योगेन, किमत्र वाग्दव्यनिसर्गे कायव्यापारो नास्ति ?, उच्यते, आत्मा येन कायव्यापारेण शब्दद्रव्याण्यादत्ते स कायिको योगः, येन तु कायसंरम्भेण तानि मुश्चति स वाचिकः, येन मनोदव्याणि मन्यते मनस्त्वेन परिणमयति स मानसः इति कायव्यापार | एव व्यवहारार्थ विधोच्यते । एकान्तरं च गृह्णाति, निसजत्येकान्तरं चैव, अत्राय भावः-एकेन समयेन अन्तरं, विचालिको
Jain Educaton inte
For Private & Personel Use Only
jainelibrary.org