________________
परिशिष्ट
आवश्यक नियुक्तेखचूर्णिः
॥१६॥
ईहावायौ 'मुहुत्तमधं ' अर्द्ध मुहूर्त, 'मुत्तमंत तु' इति पाठान्तरात्तत्वतः पृथक्पृथक द्वावप्यन्तर्मुहूर्त, कालमसङ्ख्यमसङ्ख्यवर्षायुषांपल्योपमादेन (दिजी)विनां, साख्यातं च सख्यातवर्षायुषा, धारणा वासनारूपा, चशब्दादविच्युतिरूपा स्मृतिरूपाच धारणा अन्तर्मुहूतं भवति ज्ञातव्या ॥४॥
अथ श्रोत्रेन्द्रियादीनां प्राप्तापाप्तविषयतामाहपुढे सुइ सई, रूवं पुण पासई अपुहं तु । गंधं रसं च फासं च, बद्धपुढे वियागरे ॥५॥
स्पृष्टं भावेन्द्रियाख्ये श्रोत्रेन्द्रियलग्नमात्रं तनौ रेणुवत् , तस्य घाणादिभ्यः पटुतरत्वात्, शृणोति गृहणाति शब्द शब्दप्रायोग्यभाषापुद्गलसवातं, रूपं पुनः पश्यत्यस्पृष्टं तुशब्द एवकारार्थः, ततोऽस्पृष्टमेव-अलग्नमेव, चक्षुषोऽप्राप्तकारित्वात् , यदि तु स्पृष्टं । पश्येत्तदा स्वपक्षमपुटतरा(टन्यस्ता)ञ्जनमन्तःक्षिप्तपोषधं वा पश्येन च पश्यति, पुनःशब्दो विशेषणार्थः, कि विशिनष्टि ? अस्पृष्टमपि योग्यदेशावस्थितं न पुनरयोग्यदेशावस्थितमन्तरितादि, अनन्तरितमपि परमाण्वादिकं अमृतं स्वविषया दूरस्थ वा न पश्यति । गन्धं रसं च स्पर्श च । बदस्पृष्टं पाकृतत्वाद्वयत्यये स्पृष्टवद्धं, स्पृष्ट-लग्नं ततो बद्धम्-आश्लिष्टं, आश्लि-तोयवदात्मप्रदेशैरात्मीकृतं घ्राणरसनास्पर्शेन्द्रियाणि जानन्तीति व्यागृणीयात्-ब्रूयात् , योग्यदेशावस्थितं रूपं चक्षुः पश्यतीत्युक्तं स चायं योग्यो देशः, चक्षुषो जघन्ये नागुलसङ्ख्येयभागः, अत्यासनस्थपक्ष्मन्यस्ताञ्जनादेरदर्शनात् , उत्कृष्टतः स्वाङ्गुलनिष्पन्न साधिकं योजनलक्षम् । श्रोत्रस्य द्वादशयोजनागतशब्दः, प्रागरस नास्पर्शनेन्द्रियाणां नवयोजनागतं वस्तु, जघन्यतोऽङ्गुलासङ्ख्ये.
Jain Education Internet
For Private & Personel Use Only
www.jainelibrary.org