________________
ཁྱད་པར་དུ།
आवश्यकनियुक्तरचूर्णिः। ॥ १५॥
अत्र प्राकृतत्वात्सप्तमी प्रथमार्थे, अर्थानां शब्दादीनां निर्विकल्पकं ग्रहणमवग्रहः । आह-सामान्यविशेषात्मकानामर्थानां | परिशिष्टकथमादौ दर्शनं न ज्ञानम् ? उच्यते, ज्ञानस्य प्रबलावरणत्वात् , स च द्विधा-व्यञ्जनावग्रहोऽर्थावग्रहश्च, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जन-द्रव्येन्द्रियं कदम्ब पुष्पाकारादि शब्दादिपरिणतद्रव्यसंघातश्च । ततो व्यञ्जनेन द्रव्येन्द्रियेण शब्दादिपरिणतद्रव्याणां व्यञ्जनानामवग्रहोव्यञ्जनावग्रहः, नयनमनोवर्जेन्द्रियाणामसौ चतुर्विधो ज्ञेयः, तयोरप्राप्तकारित्वेन पुद्गलस्पर्शाभावात् । इतोऽनन्तरं शब्दादिपुद्गलसङ्गतेन द्रव्येन्द्रियेणार्थानां शब्दादोनामवग्रहोर्थावग्रहः । तथेत्यानन्तर्ये शब्दाद्यर्थग्रहणे:सति-विचारणंविमर्श:-किमयं शब्दः शाङ्कः शाङ्गा वेति मतिविशेष ईहा । विशिष्टोऽवसायोऽध्यवसायो निश्चयः, माधुर्यादिगुणत्वात् शास एवायम् , कर्कशादिगुणत्वात् शाई एवावधारणात्मकः प्रत्ययोऽवायः। धरणं-परिच्छिन्नस्यार्थस्याक्च्युिति-स्मृति-वासनारूपं धारणा इति ब्रुवते तीर्थकरगणधरा इति भावः । एवं शेषेन्द्रियाणामपि स्थाणुपुरुषकुण्डोत्पलसंभृतकरिल्लमांससप्पोत्पलनालादौ अवग्रहादयो वाच्याः। एवं मनसोऽपि स्वप्नेन्द्रियव्यापाराभावे वा चिन्तयतः शब्दादिविषयावग्रहादयो ज्ञेयाः । अर्थावग्रहः ईहादयश्च सर्वेन्द्रियमनःसम्भवत्वात्षोढा, सर्वे सङ्कलिताः अष्टाविंशतिर्मतिज्ञानभेदाः ॥ ३॥
अवग्रहादीनां कालमानमाहउग्गह इक्कं समयं, ईहावाया मुहुत्तमध्धं तु । कालमसंखं संखं च धारणा होइ नायव्वा ॥४॥ जघन्यो नैश्वयिकोऽर्थावग्रहः एक समयं परममूक्ष्मकालरूपं, व्यवहारतस्तु द्वावप्यर्थावग्रहव्यञ्जनावग्रहौ अन्तर्मुहूर्त भवतः ।
G१५॥
།་བྱེད་ཕྱོགས
་ སུ། བྱ་ཁྱུང་རྒྱུ་
Jain Education Inten
For Private Personal Use Only
ainelibrary.org