________________
परिशिष्ट
आवश्यक नियुक्तेरखचूर्णिः
॥१४॥
| रास्तेषु ज्ञानं मनःपर्यायज्ञानम् । इदं च मनुष्यक्षेत्रवर्तिसंज्ञिमनोगतद्रव्यालम्बनमेव । तथाशब्दोऽवधिज्ञानसाधार्थः, साधर्म्य च छद्मस्थस्वामित्वपुद्गलमात्राश्रयत्वक्षायोपशमिकत्वप्रत्यक्षत्वैः।
तथा केवलम् -अन्यज्ञाननिरपेक्षम् , असदृशमनन्तं संपूर्ण ज्ञानं केवलज्ञानं, चः समुच्चये, अत्राह-'एषां ज्ञानानां कथमेष क्रमः ? उच्यते स्वस्यैव प्रकाशकत्वात् आदौ मतिज्ञान, ततः स्वपरप्रकाशकत्वात् श्रुतज्ञानं, तदनन्तरं मतिश्रुतानन्तरभावित्वात् प्रत्यक्षत्वाच्चावधिज्ञानं, ततः संयतानामेव भावान्मनःपर्यवज्ञानम् , अथ क्षायिकत्वात्सर्वोत्तमं केवलज्ञानं पञ्चमकम् । अनयैव च गाथया ज्ञानपञ्चककारणभूतं सामायिकाद्यावश्यकषट्कं अभिधेयं मूचितम् , सम्बन्धश्च शास्त्रार्थयोर्वाच्यवाचकरूपः
प्रतीत एव, प्रयोजनं च शिष्याचार्ययोरनन्तरं शास्त्रार्थज्ञानज्ञापनरूपम् , परम्परं च द्वयोरपि महोदयावाप्तिरिति सुज्ञातमेव ॥१॥ Kा अथ प्रथमोदिष्टस्याभिनिवोधिकस्य स्वरूपं निरूप्यते, तच्च द्विधा-एकं अश्रुतानिःस् (निधि) तं प्रातिभम् औत्पत्तिक्यादि, वैनयिकी (शास्त्रसंस्पर्श) रहितं, द्वितीयं श्रुतनिःस(निश्रितं अवग्रहादि, तच्चतुर्दा
उग्गह ईहाऽवाओ य, धारणा एव हुँति चत्तारि, आभिणियोहियनाणस्स, भेयवत्थू समासेण ॥२॥
अवग्रहः ईहा आयो धारणा, एवकारः क्रमार्थः, एमनेन क्रमेण भवन्ति, चत्वारि आभिनिवोधिकज्ञानस्य भेदवस्तूनिभेदरूपाणि-भेदप्रकारा इत्यर्थः । समासेन-संक्षेपेण । एतत्स्वरूपमेवाह--
अत्थाणं उग्गहणं, उग्गहो तह विआलणं ईहा। ववसायं च अवार्य, धरणं पुण धारणं बेति ॥३॥
॥१४॥
Jain Education Intel
For Private & Personel Use Only
M
w.jainelibrary.org