________________
परिशिष्ट
आवश्यक नियुक्तेरखचूर्णि।
व्याख्या-अभिमुखो नियतो' बोधो मतिरूपोऽभिनिबोधः। स एव आभिनिवोधिकं 'स्वार्थे इकण' । आभिनिवो. | धिकं च तद् ज्ञानं च आभिनिवोधिकज्ञानं-मतिज्ञानमित्यर्थः ।
तथा श्रूयते इति श्रुतं, शब्दः सिद्धान्तो वा, ताभ्यां सकाशाद् ज्ञानं श्रुतज्ञानं, चशब्दोऽनयोस्तुल्यकक्षताधोती, तुल्यत्वं च य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्यापि " जत्थ मइनाणं तत्थ सुयनाण" मितिवचनात्, स्थितिकालोऽप्यनयोस्तुल्य एव । अनेकजीवापेक्षया भूतभवद्भाविरूपः सर्वोऽपि । अपतिपतितैकजीवापेक्षया चषट्षष्टिसागरोपमाणि साधिकानि, उक्तं च भाष्यकृता
"दो वारे विजयाईसु गयस तिन्निच्चुए अहव ताई । अइरेगं नरभवियं नाणाजीवाण सव्वद्धम् ॥१॥
तथा द्वे अप्येते क्षयोपशमहेतु के सर्वद्रव्यविषये परोक्षे च, एवोऽवधारणे, एते एव द्वे ज्ञाने परोक्षे नेतराणि, तथा अबधीयते एकार्भयतेऽस्मिनिति अबधिरेकाग्रता रूपिद्रव्यमर्यादा वा, ताभ्यां ज्ञानमवधिज्ञानम् । चशब्दो मतिश्रुताभ्यां साम्यार्थः, साम्यं चानयोरिवावधेरपि समस्थित्या एकस्वामिकत्वात् , मिथ्याग्देवस्य सम्यग्बोधे सति ज्ञानत्रयस्यापि युगपल्लाभाच्च ।
तथा पर्यवनं पर्यवो मनसः पर्यवो मनापर्यवः । 'उङ् शब्दे ' अल् प्रत्ययो अनेकार्थत्वाद्धातूनां, सर्वतो मतिज्ञानत्रयस्वामिनः ? (मनः) पुद्गलावबोधः, स एव ज्ञानं मनःपयेवज्ञानं, यद्वा मनसः पर्यायाः परिणाम विशेषाः पौद्गलिकवस्तुविमर्शनप्रका
१ विहितो।
॥१३॥
Jain Education inte
For Private
Personel Use Only
Brjainelibrary.org