SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तरव प्रत्याख्यानमेदार मागा २४२ चूर्णिः ॥ २४१॥ नोपूर्वश्रुतप्रत्याख्यानं च, पूर्वश्रुतप्रत्याख्यानं नवमं पूर्व प्रत्याख्यानपूर्वमित्यर्थः, नोपूर्वश्रुतप्रत्याख्यानमिदमेव प्रत्याख्यानाध्ययनं, उपलक्षणत्वादन्यच्चातुरप्रत्याख्यानादि पूर्वबाह्यं ॥ २४१॥ नोश्रुतप्रत्याख्यानमाहनोसुअपञ्चक्खाणं मूलगुणे चेव उत्तरगुणे य। मुले सवं देसं इत्तरियं आवकहियं च ॥२४२॥ (भा०) श्रुतप्रत्याख्यानं न भवतीति नोश्रुतप्रत्याख्यानं, मूलगुणांश्चाधिकृत्योत्तरगुणांश्च, मूलगुणा एवं प्राणातिपातादिनिवृत्तिरूपत्वात् प्रत्याख्यानं वर्तन्ते, उत्तरगुणा एवाशुद्धपिण्डनिवृत्तिरूपत्वात प्रत्याख्यानं तद्विषयं वाऽनागतादि वा दशविधमुत्तरगुणप्रत्याख्यानं, 'मूले सत्वं देसं 'ति मूलगुणप्रत्याख्यानं द्विधा-सर्वमूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं च, सर्व मूलगुणप्रत्याख्यानं पश्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं पश्चाणवतानि, इदं चोपलक्षणं यत उत्तरगुणप्रत्याख्यानं द्विधवसर्वोत्तरगुणप्रत्याख्यानं देशोत्तरगुणप्रत्याख्यानं च, तत्र सर्वोत्तरगुणप्रत्याख्यानं दशविधं ' अणागयमहतं' इत्याद्युपरिष्टाद्वक्ष्यामः, देशोत्तरगुणप्रत्याख्यानं सप्तविध-त्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि, एतान्यप्यूचं वक्ष्यामः । पुनरुत्तरगुणप्रत्याख्यानं द्विधा-इत्वरं साधूनां किश्चिदभिग्रहादि, श्रावकाणां तु चत्वारि शिक्षावतानि, यावत्कथिकं तु [साधूनां] नियन्त्रितं, यत्कान्तारदुर्भिक्षादिषु न भज्यते, श्रावकाणां तु त्रीणि गुणव्रतानि ॥ २४२ ॥ स्वरूपतः सर्वमूलगुणप्रत्याख्यानमाहमूलगुणावि यदुविहासमणाणं चेव सावयाणंचाते पुणविभज्जमाणापंचविहा हुति नायवा॥१॥(प्र०) इयमन्यकर्तृकी ॥१॥ ॥२४१॥ २१ Jain Education Inter For Private & Personel Use Only ww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy