________________
आवश्यक
निर्युक्तेरवचूर्णिः
।। २१५ ।।
Jain Education In
प्रचलायमान ईषत्स्वपन्नित्यर्थः, सुष्ठु सुप्तः, स नैव शुभं ध्यायति ध्यानमशुभं वा न व्यापारितं कचिद्वस्तुनि चित्तं येन स जाग्रदपि एवमेव-नैव शुभं ध्यायति नाप्यशुभं ॥। १४९५ ॥ किञ्च - अचिरोववन्नगाणं मुच्छिय अवत्तमत्तसुत्ताणं । ओहाडियमवत्तं च होइ पाएण चित्तंति ॥ ९४९६ ॥
अचिरोपपन्नकानामचिरजातानां मूच्छिताव्यक्तमत्तसुप्तानां मूच्छितानामभिघातादिना अव्यक्तानामव्यक्तचेतसां विषयादिना, मत्तानां मदिरादिना सुप्तानां निद्रया, 'ओहडिअं 'ति स्थगितमव्यक्तममेव भवति प्रायः चित्तं ।। १४९६ ।। नवे भूतस्यापि चेतसो ध्यानताऽस्तु को विरोधः १, उच्यते
गाढलंबणलग्गं चित्तं वृत्तं निरेयणं झाणं । सेसं न होइ झाणं मउअमवत्तं भमंतं वा ॥ १४९७ ॥
गाढालम्बनलग्नं-एकालम्बने स्थिरतयाऽवस्थितं चित्तमुक्तं, निरेजनं ध्यानं, [न] मृदुभावनयाऽकठोरं अव्यक्तं पूर्वोक्तं भ्रमद्वाऽनवस्थितं वा || १४९७ ॥ ननु कथमस्य पश्चादपि व्यक्तता १, अत्रोच्यतेउम्हासेसोऽवि सिही होउं लद्धिंधणो पुणो जलइ । इय अवत्तं चित्तं होउं वत्तं पुणो होई ॥१४९८ ॥
ऊष्मावशेषोऽपि शिखी भूत्वा लब्धेन्वनः सन् पुनर्ज्वलति एवमव्यक्तं चित्तं मदिरादिसम्पर्कादिना भूत्वा व्यक्तं पुनर्भवति ॥ ४९८ ॥ प्रासङ्गिकमुक्तं, प्रक्रान्तं च कायिकादि त्रिविधं ध्यानं, अत्राशङ्कामाहपुवं च जं तदुत्तं चित्तस्सेगग्गया हवइ झाणं । आवन्नमणेगग्गं चित्तं चिय तं न तं झाणं ॥ १४९९ ॥
For Private & Personal Use Only
ध्यानविषये
शङ्कासमा
धानानि
नि०गा०
१४९६
१४९९
।। २१५
www.jainelibrary.org