________________
ध्यान
आवश्यक- निर्युक्तेरवचूर्णिः । I
शतकं
गा० ८४-८६
॥९१॥
वितर्कमविचारं, एकयोग एवान्यतरस्मिन् सङ्कमाभावात् , तृतीयं च मूक्ष्मक्रियानिवर्ति काययोगे, न [योगान्तरे ], शुक्लमयोगिनि-शैलेशीकेवलिनि चतुर्थ व्युपरतक्रिया प्रतिपाति ॥ ८३॥ आह-शुक्लोपरिमभेदद्वयेऽमनस्कत्वात्केवलिनो ध्यानं च मनोविशेषः 'ध्यै चिन्ताया 'मिति पाठात् , तदेतत्कथं स्थान १, उच्यते
जह छ उमत्थस्स मणो झाणं भण्णइ सुनिच्चलो संतो। तह केवलिणो काओ सुनिचलो भन्नए झाणं ॥ ८४ ।। यथा छअस्थस्य मनो ध्यान मण्यते सुनिश्चलं सत् , तथा योगत्वाव्यभिचारात्केवलिना कायः ॥ ८४ ॥ आह-चतुर्थे निरुद्धत्वादसावपि न स्यात्तत्र का वार्ता ?, उच्यते
पुबप्पओगमओ चिय कम्मविणिज्जरणहेउतो यावि । सद्दत्थबहुत्ताओ तह जिणचंदागमाओ य ॥ ८५ ॥
चित्ताभावेवि सया सुहुमोवरयकिरियाइ भण्णंति । जीवोवओगसब्भावओ भवस्थस्स झाणाई ॥ ८६ ॥ चिचामावेऽपि सति सूक्ष्मोपरतक्रियो भण्यते, सूक्ष्मग्रहणात् सूक्ष्मक्रियाऽनिवर्तिनो ग्रहणं, उपरतग्रहणाद् व्युपरतक्रियाऽप्रतिपातिनः, पूर्वप्रयोगादिति हेतुः, कुलालचक्रभ्रमणवत , यथा तच्चकं भ्रमणनिमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतो भावमनसो भावाद्भवस्थस्य ध्याने, एवं शेषहेतवोऽपि योजनीयाः, विशेषस्तूच्यते-- कर्मविनिर्जरणहेतुतश्चापि' क्षपकश्रेणिवत् क्षपकश्रेण्यामिवास्य भवोपग्राहिकर्मनिर्जरेत्यर्थः, 'तथा शब्दार्थबहुत्वात्' यथा एकस्यैव हरिशब्दस्य शक्रशाखामृगादयोऽनेकार्थाः, एवं ध्यानशब्दस्यापि, 'ध्ये चिन्तायां' 'ध्यै काययोगनिरोधे', 'ध्यै अयोगित्वे' इत्यादि, तथा जिनचन्द्रागमाच्चैतदेवं ॥ ८५-८६ ॥ उक्तं ध्यातव्यं, ध्यातारः,
भाववि सया सुहुमोवरयकिरियाइ
म
हणात् सूक्ष्मक्रियाऽनिवर्तिनी महानदण्डादिक्रियाऽभावेऽपि भ्रमात
-
-
Jain Education Inte
For Private & Personel Use Only
Paw.jainelibrary.org