SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णिः । ॥ ८६ ॥ Jain Education Inter परिपूर्णस्तं यथा तन्निर्वाणपुरं शीघ्रमविघ्नेन प्राप्नुवन्ति तथा विचिन्तयेत् ॥ ६० ॥ तत्थ य तिरयण विणिओगमइयमेगंतियं निराबाहं । साभावियं निरुवमं जह सोक्खं अक्खयमुर्वेति ॥ ६१ ॥ तत्र च निर्वाणपुरे त्रिरत्नानि - ज्ञानादीनि विनियोगश्चैषां क्रियाकरणं, ततः प्रभूतेः तदात्मकं तथैकान्तिकमेकान्तमावि, यथा सौख्यमक्षयमुपयान्ति प्राप्नुवन्ति, क्रिया पूर्ववत् ॥ ६१ ॥ किंबहुना ? सच्चं चिय जीवाइपयत्थवित्थरोवेयं । सवनयसमूहमयं झाएज्जा समयसम्भावं ॥ ६२ ॥ किंबहुना भाषितेन ? सर्वमेव जीवादिपदार्थविस्तरोपेतं सर्वनयसमूहात्मकं ध्यायेत्समय सद्भावं सिद्धान्तार्थं ॥ ६२ ॥ गतं ध्यातव्यं, अथ येऽस्य ध्यातारस्तानाह - सङ्घप्पमायरहिया मुणओ खीणोवसंतमोहा य । झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ॥ ६३ ॥ क्षीणोपशान्तमोहाथ, चशब्दादन्ये वाऽप्रमादिनो ध्यातारो धर्म्मध्यानस्य ॥ ६३ ॥ लाघवार्थं शुक्कुध्यानस्याप्याहएएच्चि पुवाणं पुबधरा सुप्पसत्यसंघयणा । दोण्ह सजोगाजोगा सुक्काण पराण केवलिणो ॥ ६४ ॥ ' एते एव ' ये धर्मध्यानस्य ध्यातार उक्ताः, पूर्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारं एकत्ववितर्कमविचारं इत्यनयोर्ध्यातारः, अयं पुनर्विशेषः - पूर्ववराश्चतुर्दश पूर्वविदः, तदुपयुक्ताः, इदं च पूर्वधरविशेषणमप्रमादवतामेव ज्ञेयं, न क्षीणमोहादीनां (निर्ग्रन्थानां), माषतुषमरुदेव्यादीनामपूर्ववराणामपि तदुपपत्तेः, 'सुप्रशस्तसंहननाः' आद्यसंहननयुक्ताः, इदमोघत एव विशेषणं, तथा द्वयोः शुक्लयोः परयोः सूक्ष्मक्रियानिवृत्तिव्युपरतक्रियाऽप्रतिपातिलक्षणयोर्यथासख्यं सयोगायोग For Private & Personal Use Only ध्यान शतकं गा० ६१-६४ ॥ ८६ ॥ v.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy