________________
आवश्यक
निर्युक्तेरव चूर्णिः ।
11 23 11
Jain Education Inte
कम्मे | जीवाणं चिरमवाया 'निरयाइगईभमंताणं ॥ ८ ॥ किरियासु वट्टमाणा काइगमाईसु दुक्खिआ जीवा । इह चैव य पर लोगे संसारपवड्डगा भणिया ।। ९ ।। ' एवं रागादिक्रियासु वर्त्तमानानामपायान् ध्यायेत् ॥ ५० ॥ तृतीयमाह - इपिएसाणुभावभिन्नं सुहासुहविहतं । जोगाणुभावजणियं कम्मविवागं विचितेजा ॥ ५१ ॥
प्रकृत्यादिभेदभिन्नं, शुभाशुभविभक्तं, योगानुभाव जनितं योगा मनोवचनकायाः, अनुभावो जीवगुण एव, स च मिथ्यात्वाविरतिप्रमादकषायास्तैर्जनितं ॥ ५१ ॥ चतुर्थमाह
जिण दे सियाइँ लक्खण संठाणासणविहाणमाणाई । उच्पायट्टिभंगाइपज्जवा जे य दवाणं ॥ ५२ ॥
जिनदेशितानि लक्षणसंस्थानासनविधानमानानि विचिन्तयेदिति वक्ष्यति षष्ठयां गाथायां द्रव्याणामिति प्रतिपदमा योज्यं, तत्र लक्षणं धर्मास्तिकायादिद्रव्याणां गत्यादि, तथा संस्थानं परिमण्डलाद्यजीवानां जीवशरीराणां च समचतुरस्रादि, कालस्य मनुष्यक्षेत्राकतिः, सूर्यादिक्रियाऽभिव्यङ्ग्यो हि कालः किल मनुष्यक्षेत्र एव वर्त्तते, अतो य एवास्याकारः स एव कालस्योपचारतो विज्ञेयः, धर्माधर्म्मयोरपि लोकक्षेत्रापेक्षया भावनीयं तथा आसनानि - आधारलक्षणानि धर्मास्तिकायादीनां लोकाशादीनि स्वस्वरूपाणि वा, तथा विधानानि धर्मादीनां यथा - ' धम्मस्थिका धम्मत्थिकायस्स देखे धम्मथिका पसे' इत्यादि, तथा मानानि धर्मादीनामेवात्मीयानि, तथा उत्पादस्थितिभङ्गादिपर्याया ये च द्रव्याणांधर्मास्तिकायादीनां तान् विचिन्तयेत् तत्र धर्मास्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यते, तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति, धर्मास्तिकायद्रव्यात्मना तु नित्यः, आदिशब्दाद गुरुलघ्वादिपर्यायपरिग्रहः ।। ५२ ।।
For Private & Personal Use Only
ध्यान
शतकं
गा०
५१-५२
॥ ८३ ॥
ww.jainelibrary.org