________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
॥ ७५ ॥
Jain Education Interna
अङ्कनं - लाञ्छनं श्वशृगालचरणादिभिः, मारणं-प्राणवियोजनमसिशच्यादिभिः, आदिशब्दादागाढपरितापनादिग्रहः, एतेषु प्रणिधानं - अकुर्वतोऽपि करणं प्रति दृढाध्यवसानं, रौद्र ध्यानं, अतिक्रोधग्रहग्रस्तं, क्रोधग्रहणाच्च मानादयोऽपि गृह्यन्ते, निर्घृणमनसः सतः, अधमो नरकादिप्राप्तिलक्षणो विपाको यस्य तत्तथाविधं ॥ १९ ॥ द्वितीयमाह
पिसूणा सभासम्भूयभूयधायाइवयणपणिहाणं । मायाविणोऽसंघण परस्स पच्छन्नपावस्स ॥ २० ॥
पिशुनमनिष्टसूचकं, असभ्यं जकारमकारादि, असद्भूतं त्रिधा अभूतोद्भावनं सर्वगत आत्मेत्यादि १, भूतनिवो नास्त्यात्मेत्यादि २, गामश्वमित्यादि ब्रुवतोऽर्थान्तराभिधं ३, भूतघातादि छिन्द्वि भिन्द्वि व्यापादयेत्यादि, तत्र पिशुनादि - वचनेष्वप्रवर्त्तमानस्यापि प्रवृत्तिं प्रति प्रणिधानं रौद्रध्यानं, मायाविनो वणिजादे, तथाऽतिसन्धानपरस्य - परवञ्चनाप्रवृत्तस्य, तथा ' प्रच्छन्नपापस्य ' कूटप्रयोगकारिणः ॥ २० ॥ तृतीयमाह -
तह तिव्वको लोहाउलस्स भूओवघायणमणज्जं । परदव्वहरणचित्तं परलोयावाय निरवेक्खं ॥ २१ ॥
तीव्रक्रोधलोभाकुलस्य जन्तोः, भूतानामुपहननं भूतोपहननं, अनार्य, परद्रव्यहरणचित्तं, रौद्रध्यानं ॥ २१ ॥ चतुर्थमाह
सद्दाइविसयसाहणघणसारक्खणपरायणमणिद्वं । सवाभिसंकण परोवघायकलुसाउलं चित्तं ॥ २२ ॥ शब्दादयश्च ते विषयाश्च ते, साधनं कारणं, तच्च तद्धनं च तत्संरक्षणे परायणं, तथाऽनिष्टं सतां, सर्वेषामभिशङ्कनेनन विद्मः कः किं करिष्यतीत्यादिलक्षणेन, तस्मात्सर्वेषामुपघातः श्रेयानित्येवं परोपवातेन च, तथा कलुषा:- कपायास्तैराकुलंव्याप्तं यत्तथा चित्तं तत् रौद्रध्यानं ॥ २२ ॥
For Private & Personal Use Only
ध्यान
शतकं
गा०
२०-२२
।। ७५ ।।
jainelibrary.org