SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आवश्यक- निर्युक्तेरव- चूर्णि: मालाकार| दृष्टान्तः निगा १२५७ ॥दर ॥ AT . ... ... " शिरस्येव स्तम्मितं, क्षुधाकुला तथैवागत्याह-पतिमारिकाया(यै)भिक्षा दीयतामित्यादि । बहुकाले गते साध्वीरालोक्य पादेषु पतन्त्यास्तस्याः पिटकं पतितं, व्रतिनी जाता ७। शुद्धौ वस्त्रागदौ, तत्र वस्त्रदृष्टान्तः-राजगृहे श्रेणिकेन क्षौमयुगलं रजकस्य समर्पितं, कौमुदीक्षणे तेन भार्याद्वयस्य दत्तं, कौमुद्यां च श्रेणिकामयौ प्रच्छन्नं हिण्डन्तौ स्तः, श्रेणिकेन दृष्ट्वाऽभिज्ञाय ताम्बूलेन सिक्तं, रजकेन क्षारादिभिः शोधितं, आनायितेऽर्पितं सद्भावपृच्छायामुक्तं रजकेन, स सत्कृतः, एवं साधुना शीघ्रमाचार्यस्यालोचयितव्यं, तेनापि शुद्धिः कार्या। अगदो यथा नमस्कारे, एवं साधुनापि निन्दाऽगदेनातिचारविषमपसारयितव्यं ८ ॥१२५६॥ उक्तान्येकाथिकानि, अथ यथा साधुना इयं शुद्धिः कार्या तथाऽऽह-- आलोवणमालुंचन वियडीकरणं च भावसोहीय। आलोइयंमि आराहणा अणालोइए भयणा ॥१२५७ यथा मालाकारः स्वारामस्य द्विसन्ध्यमवलोकनं करोति, दृष्ट्वा कुसुमानामालुश्चनं ग्रहणं करोति, ततो विकटीकरणंविकसितमुकुलितादीनां मेदेन विभजनं, चशब्दात्पश्चाद् ग्रन्थनं, ततोऽभिलषितार्थलामो भावशुद्धिश्च चित्तप्रसादरूपा स्यात् । एवं साधुरपि कायोत्सर्गे देवसिकातिचारस्यावलोकनं करोति, पश्चादालुश्चनं-स्पष्टबुद्ध्याऽपराधग्रहणं, ततो विकटीकरणंगुरुलघ्वपराधविमजनं, तत आलोचनाप्रतिसेवनानुलोमेन ग्रन्थनं, तथा यथाक्रमं गुरोनिवेदनं करोति, एवं कुर्वतो भावशुद्धिः स्यात् । इत्थमालोचिते आराधना, अनालोचिते 'भजना' कदाचित्स्यात्कदाचिन, 'आलोअणापरिणओ सम्मं संपट्टिओ गुरुसगासं । जह अंतरावि कालं करिज आराहओ तहवि ॥१॥'कदाचित्र 'लज्जाइ गारवेण य (हड्डीए गारवेणं)' इत्यादि ॥ १२५७ ॥ इत्थमालोचनाप्रकारेणोमयकालं नियमत एवाद्यान्न्याहत्तीर्थे साधुना शुद्धिः कार्या, मध्यमाईत्तीर्थेषु Jain Education Internal For Private & Personel Use Only Lyww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy