SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव प्रतिक्रमणादीनां दृष्टान्ताः चर्णिः ते छद्मना बलिता तवा राजपुत्री कुविन्दसुता यो का नीचकाः कुर्वन्ति डमरकान्यातक ! अधिक ॥६ ॥ न्यातुल्यः साधुणो ग्रहणधारणमा असरिसजणा परिणीता तान घुटुंमि । तुह न खमं फुल्लेउं जइ पच्चंता करिति डमराई॥१॥' पुष्पिताः कुत्सितकर्णिकारा:-कर्णिकारकाः हे चूतक ! अधिक- मासे घोषिते शब्दिते सति तब न क्षमं युक्तं पुष्पितुं, यदि प्रत्यनी(त्यन्त)का नीचकाः कुर्वन्ति डमरकान्यशोभनानि, ततः किं त्वयाऽपि कर्त्तव्यानि ?, नैवेत्यर्थः तत् श्रुत्वा राजपुत्री कुविन्दसुता यद्येवं करोति ततः किं मयापि कार्यमिति विमृश्य रत्न. करण्डको विस्मृत इति छद्मना वलिता तद्दिन एव सामन्तपुत्राय शरणागताय सा राज्ञा दत्ता, तेन च श्वसुरवलेन गोत्रिणो जित्वा स्वराज्यमाप्य सा पट्टराज्ञी कृता, भावे कन्यातुल्यः साधुः, धूर्ततुल्यो विषयासक्तः, गीततुल्याऽऽचार्येण समनुशिष्टोनिवृत्तः सुखी। यद्वा द्रव्यभावनिवृत्तौ कापि गच्छे एकः साधुस्तरुणो ग्रहणधारणसमर्थ इति सूरिप्रियः, सोऽन्यदाऽशुभ कर्मोदयेन प्रतिगच्छन् शृणोति-'तरियव्वा य परिण्णा मरियवं वा समरे समत्थएणं । असरिसजणउल्लावा न हु सहियव्वा कुलपसूयएणं ॥२॥' बुद्धः प्रतिनिवृत्तः ५ । निन्दायां चित्रकरसुता-केनापि राज्ञा बुद्धिमती चित्रकरसुता परिणीता तया बुद्धिप्रपञ्चेन नृपः स्वावासे षण्मासानानीतः। सपत्न्यछिद्राणि विलोकयन्ति, सा चापवरके प्रविश्य पुराणमणि( पुराणानि मणियुक्तानि) चीवराणि पुरः कृत्वा आत्मानं निन्दति-त्वं चित्रकरसुता एतत्ते पितृसत्कमित्यादि, सपत्नीभिर्नृपस्योक्तंएषा तव कार्मणं करोतीति, राज्ञा दृष्टा तुष्टेन पट्टराज्ञी सा कृता, मावे साधुनाऽऽत्मा निन्दितव्यः६। द्रव्यगर्हायां पतिमारिकाकस्याप्यध्यापकस्य वृद्धविप्रस्य तरुणी मार्या नर्मदापरकुलवासिगोपे रता ज्ञात्वैकेन च्छात्रेणोचे-'दिवा विमेषि काकानां (केभ्यः ) रात्रौ तरति नर्मदा । कुतीर्थान्यपि जानासि जलजन्वक्षिरोधनं ॥ १॥' सा प्राह किं कुर्वे युष्मादृशा नेच्छन्ति, स उपचरितः प्राह-उपाध्यायाद्विमेमि, सा विप्रं व्यापाद्योज्झनाय पिटके (पेटिकायां) क्षिप्त्वा अटव्यां गता व्यन्तर्या पिटकं ॥६ ॥ Jan Education Interi For Private Personel Use Only
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy