________________
प्रतिक्रम
आवश्यक- नियुक्तेरव चूर्णिः ।
णादीनां
दृष्टान्ता:
इत्यादिष्टे ग्राम्यस्थानीयसाधुना एकेनातिक्रान्तः स दुःखभागी, यः प्रमादेनासंयमं गतः प्रतिनिवृत्तोऽकरणतया प्रतिक्रमति स शिवभागी १। प्रतिचरणायां प्रासादेन दृष्टान्त:-कश्चिद्वणिगर्थसमृद्धः प्रासादोऽयं त्वया चिन्त्य इति भार्याय उक्त्वा देशान्तरमगात्तया देहमण्डनादिपरया स शनैः शनैः पतितो न प्रतिचरितः, आगतेन वणिजा दृष्ट्वा तथा सा निःसारिता यथा न दृष्टा, तेन पुनरन्यः प्रासादः कारितो अन्या च भार्या आनीता, तया प्रतिचरितं दृष्ट्वा सा गृहस्वामिनी कृता, एसा द्रव्यप्रतिचरणा, भावे वणिकस्थानीय आचार्यः प्रासादस्थानीयः संयम इत्यादि ज्ञेयं २ । दुग्धकायो-दुग्धघटकावडिः, एकः कुलपुत्रकस्तस्य द्वे भगिन्यौ अन्यग्रामयोर्वसतः, तस्य पुत्रीयाचनाय स्वस्वसुतकते आयाते, तेनोचेयुवां यातं, पुत्रौ प्रेष्यतां यो दक्षस्तस्मै दास्ये सुता, आगतौ तौ परीक्षायै गोकुले दुग्धाऽऽनयनाय प्रहितो, तौ दुग्धघटौ भृत्वा कापोत्याऽऽदाय प्रतिनिवृत्तौ, तत्र द्वौ पन्थानौ, एका परिहारेण समोऽपरः ऋजुर्विषमश्च, एकस्य अजुना प्रविष्टस्य प्रस्खल्यैक| घटमङ्गे द्वितीयोऽपि भग्नः, द्वितीयस्य समेन गतस्य कन्या दत्ता, एषा द्रव्यपरिहरणा, भावे कुलपुत्रकस्थानीया अर्हन्तः, दुग्धं चारित्रं, कन्या सिद्धिः, गोकुलं मनुष्यभवः ३ । वारणायां विषभोजनतडागेन दृष्टान्तः-एको राजा परचक्रागमं ज्ञात्वा ग्रामेषु दुग्धदधिभोज्यादिषु वृक्षपुष्पफलादिषु विषयोगं कारितवान् , आगतेन राज्ञा तथा ज्ञाते घोषणया वारितं सैन्यं, ये वारिता(विस्ता)स्ते सुखिनोऽभूवन , अपरे मृताः, भावे विषानपानसदृशा विषयाः ४। द्वयोः कन्ययो राजसुताचित्रकरसुतयोर्मध्ये पूर्व निवृत्तौ राजकन्यया दृष्टान्तः-एका शालापतिस्तस्य शालायामेको धूर्तो मधुरस्वरेण गायति, तेन समं शालापतिपुत्री तत्सखी राजपुत्री च लग्ने द्वेऽपि यातः, पठितं केनापि-'जइ फुल्ला कणियारया चूयय ! अहिमासयंमि
Jain Education in
For Private & Personel Use Only
alww.jainelibrary.org