________________
आवश्यक नियुक्तेरव चूर्णिः।
वारणानि
वृत्तिनिक्षेपाः नि० गा. १२५११२५२
॥ ५७॥
द्रव्यपरिहरणा हेयं विषयमधिकृत्य अनुपयुक्तस्य सम्यग्दृष्टेरित्यादि कण्टकादिपरिहरणा वा, परिरयपरिहरणा गिरिसरि- परिरयपरिहरणा, परिहारपरिहरणा लौकिकी मात्रादिपरिहरणा, लोकोत्तरा पार्श्वस्थादिपरिहरणा, वर्जनापरिहरणा लौकिकी इत्वरा प्रसूतसूतकादिपरिहरणा, यावत्कथिका डोम्बादिपरिहरणा, लोकोत्तरा इत्वरा शय्यातरपिण्डादिपरिहरणा, यावत्कथिका तु राजपिण्डादिपरिहरणा, अनुग्रहपरिहरणा अक्खोडभंगपरिहरणा, अक्खोडं खिलं क्षेत्रं तस्य ये प्रथम भङ्गं कुर्वन्ति तेषामनुग्रहेण | राजा करं परिहरतीत्यनुग्रहपरिहरणा, भावपरिहरणा प्रशस्ता क्रोधादिपरिहरणा, तया इहाधिकारः । प्रतिक्रमणमशुभयोगपरिहरणैव ॥ १२५० ।। वारणा-निषेधना तामाहणामं ठवणा दविए खित्ते काले तहेव भावे य । एसो उ वारणाए णिक्खेवो छविहो होइ ॥ १२५१ ॥ ... द्रव्यवारणा तापसादीनां हलकृष्टादिपरिभोगवारणा, अनुपयुक्तस्य सम्यग्दृष्टेर्वा देशनायामित्यादि, क्षेत्रवारणा तु यत्र क्षेत्रे वर्ण्यते क्रियते क्षेत्रस्य वाऽनार्यस्य, एवं कालवारणापि, कालस्य वा विकालादेवर्षासु वा विहारस्य, भाववारणा प्रशस्ता प्रमादवारणा, तयाधिकारः ॥ १२५१ ॥ निवृत्तिमाहनामं ठवणा दविए खित्ते काले तहेव भावे य । एसो य नियत्तीए णिक्खेवो छबिहो होइ ॥ १२५२ ॥ द्रव्यनिवृत्तिस्तापसादीनां हलकृष्टादिनिवृत्तिरित्यादि यावत् प्रशस्तभावनिवृत्त्या इहाधिकारः ॥ १२५२ ॥ निन्दा आस्कोटकानां यो भङ्गस्तस्य परिहरणा प्रतिलेखनाविधिविराधनापरिहरणेत्यर्थः ।
Jain Education Inter
For Private & Personal Use Only
Tww.jainelibrary.org