________________
श्री धीरसुन्दरम आव० अवचूर्णि ॥९५॥
Jain Education International
तथा खेल :- "लेमा जल्लो - मलः सुगन्धाश्चैते भवन्ति विडादयस्तल्लब्धिमतः, इयमत्र भावना - इद्दामपिचिः कस्यापि शरीरैकदेशे उत्पद्यते, कस्यापि सर्वस्मिन् शरीरे तेनात्मानं परं वा यदो व्याध्यपनयनबुद्धया परामृशति तदा तदपगमो भवति, विडादिभिरपि तल्लब्धिमन्तो यदाऽऽत्मानं परं चा रोगापगमबुद्धधा परामृशन्ति तदा तद्रोगापगमः, यः सर्वैरपि शरीरदेशैः शृणोति स संभिन्न श्रोताः, यद्वा श्रोतांसि - इन्द्रियाणि संभिन्नानि एकैकशः सर्वविषयैर्यस्य स सं सभिन्न श्रोताः, एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान् योऽवगच्छति स इत्यर्थः, अथवा श्रोतांसि - इन्द्रियाणि सम्भिन्नानि एकैकशः सर्वविषयेर्यस्य संभिन्नानि परस्परत एकरूपतामापन्नानि यस्य स तथा, अथवा द्वादशयोजनविस्तृतस्य चक्रवर्तिकटकस्य युगपद् ब्रुवाणस्य तत्सूर्यसंघातस्य वा युगपदास्फालयमानस्य सम्भिन्नान् शब्दान् शृणोति स तथा एवं च संमिनश्रोतृत्वमपि लब्धिरेव, ऋज्वी - प्रायो घटादिमात्रग्राहिणी मतिः ऋजुमतिः, विपुलमतिमनः पर्यायज्ञानापेक्षया किञ्चिदविशुद्धतरं मनःपर्यायज्ञानमेव तथा विमूत्रकेशनखादयोऽवयवाः सुरभयो व्याध्यपनयनममर्थत्वादौषधयो यस्यासौ सवैषिधिः, यद्वा सर्वा आमषैषध्यादिका औषधयो यस्यैकस्यापि साधोः सः एवमेते ऋद्धिविशेषा बोद्धव्याः ||६९ ॥
एव
चारणआमीविस केवली य मणनाणिणो य पुव्वधरा । अरहंत चकवट्टी, बलदेवा वासुदेवाय ॥७०॥
For Private & Personal Use Only
गाथा - ७०
॥९५॥
www.jainelibrary.org