SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू०|| आव० अवचूर्णिः ।। ॥१६॥ __अतिशयगमनागमनलब्धिापनाचारणाः, ते च द्विधा-जंघाचारणा विद्याचारणाश्च, ये चारित्रतपोविशेषस्य । प्रभावतः समुद्भुतोतिशयगमनागमनलब्धिसंपन्नास्ते जंघाचारणाः, ते च प्रथमोत्पातेन त्रयोदशं रुचकं द्वीपं यान्ति, वलन्तः प्रथमोत्पातेन नंदीश्वरे द्वितीयेन यतो गतास्तत्राऽऽयान्ति, ऊर्ध्वमेकेनैव मेरुशिखरपाण्डुकवनं, वलन्त एकेन नन्दनवनं द्वितीयेन स्वस्थानं एतेषां हि चारित्रप्रभावतो लब्धिः स्यात् ततो लब्ध्युपजीवनेनौत्सुक्यभावतः प्रमादसंभवाचारित्रातिशयनिबन्धना लब्धिरपि हीयते, ततो वलन्तो द्वाभ्यामुत्पाताभ्यां स्वस्थानं यान्तीति, ये पुनर्विद्यावशतः समुत्पन्नगमनागमनलब्धयस्ते विद्याचारणाः, ते चकेनोत्पादेन मानुषोत्तरं द्वितीयेन नंदीश्वरं यान्ति, एकेनैव स्वस्थानं, ऊर्ध्वमेकेन नन्दनं द्वितीयेन पाण्डकवनं, वलन्त एकेनैव स्वस्थानं, ते रविकरानपि स्वीकृत्य गच्छन्ति, जघाचारणास्त्वेवमेव, विद्याचारणा हि विद्यावशात् स्यात् , विद्या च परिशीलयमाना स्फुटा स्फुटतग जायते, ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसम्भवादेकेनवोत्पातेन स्वस्थानमायाति । तथा आस्यो-दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते द्विधा-जातितः कर्मतश्च, जातितो वृश्चिकमण्डूकोरगमनुष्यजातयः, वृश्चिकविषं हि उत्कपतो (प्र. अद्ध)भरतक्षेत्रप्रमाणं शरी व्यामोति, मण्डूकविषमपि भरतक्षेत्रमानं, भुजङ्गमविषं जम्बूद्वीपप्रमाणं, मनुष्यविपं समयक्षेत्रमानं, कमतश्च पञ्चेन्द्रियतिर्यग्योनयो मनुष्याः देवावासहस्रारात , एते हि तपश्चरणानुष्ठानतोज्यतो वा गुणत आशीविषवृश्चिकभुजङ्गादिसाध्या क्रियां कुर्वन्ति, शापप्रदानादिना परं व्यापादयन्तीतिभावः, देवास्त्वपर्याप्तावस्थायां तच्छक्तिमन्तो ज्ञेयाः, ते हि पूर्व नरभवे समुपान्तिाशीविषलब्धयः सहस्रारान्तदेवेष्वभिनवोत्पन्ना ॥९६॥ Sain Education inte For Privale & Personal use only nelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy