________________
श्रोधीरसुन्दरसू० आव०अवणिः
॥१४॥
गाथा-६०
च संभवन्ति, अप्रतिपतितसम्यक्त्वानां तिर्यङ्मनुष्येभ्यो देवनारकत्वेनोत्पद्यमानामामवधेः प्रतिपत्तरपि संभवात् १३, भाषकपरीत्तद्वारयोः प्राग्वत् १४-१५, पइभिः पर्याप्तिभिर्ये पर्याप्तास्ते आद्याः सन्ति, अन्ये भाज्याः, अपर्याप्ता षट्पर्याप्त्यपेक्षया करणापर्याप्तोस्ते द्वे संभवन्ति १६, मूक्ष्मादीनि द्वाराणि चत्वारि द्रव्यप्रमाणादीनि अष्टौ च प्राग्वत् ॥ उक्तमवधिज्ञानं, तच्चतुर्धा-द्रव्यादिभेदात्, तत्र द्रव्यतोऽवधिज्ञानी जघन्यतोऽनन्तानि रूपिद्रव्याणि, उत्कर्षतः सर्वाण्यपि रूपिद्रव्याणि जानाति पश्यति च १, क्षेत्रतो जघन्यतोऽङ्गुलस्यासंख्येयभार्ग उत्कर्षतोऽलोके लोकप्रमाणमात्राणि संख्यातीतानि खण्डानि, कालतो जघन्यतोऽसंख्येयभागमावलिकायाः उत्कर्षतोऽसंख्यो उत्सलिप्पिण्यवसप्पिणीः, भावतः जघन्यातोऽनन्तान् भावान् उत्कर्षतोऽप्यनन्तान भावान् सर्वभावानां जानाति पश्यति च ॥६८॥ ____ एष चावधिः ऋद्धि विशेषो वर्ण्यते, तत ऋद्धिप्रतिपादनावसरात् शेषर्द्धयोऽपि वर्ण्यन्ते ता एवाह
आमोसहि विष्पोसहि खेलोसहि जल्लमोसही चेव ।
संभिन्नसो उज्जुमइ, सव्वोसहि चेव बोद्धब्बो ॥६९॥ आमर्षणमामर्षः संस्पर्शनं स एवौषधिर्यस्यासौ आमषिधि-करादिसंस्पर्शनमात्रादेव व्याध्यपनयनसमर्थ, लब्धिलब्धिमतोरभेदोपचारात् साधुरेवामषिधिलब्धिरित्यर्थः, एवं शेषपदेष्वपि भावना कार्या, तथा मत्रस्य पुरीपस्य वाऽवयवो विडित्युच्यते, अन्येत्वाहुः-विडिति-विष्टा 'प' इति प्रश्रवणं ते-औषधिर्यस्यासौ विडौषधिः,
॥९४||
Jain Education Intere
For Private & Personal use only
d inelibrary.org TAGI