________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥१२॥
देशतोऽभ्यन्तरावधिः र, पुरुष सम्बदः किन्तु लोकान्त, एकदिश्वत्ता वाद्यावधिः
गाथा-६८
अत्रापि चतुर्भङ्गिका-पुरुषे सम्बद्धो लोकान्ते च, अयं च लोकप्रमाणावधिरेव १, पुरुषे सम्बद्धो न लोकान्ते, देशतोऽभ्यन्तरावधिः २, पुरुषे सम्बद्धः किन्तु लोकान्ते, एकदिग्वर्ती बाह्यावधिः ३, शून्योऽयं भङ्ग इति हारिमद्रीया टीका (अंगुलसंख्येयभागवृद्धिक्रममपेक्ष्य) तदसम्यक्, चूर्णों भाष्ये चाप्रतिषेधादसम्भवहेत्वभावाच्च (प्रदेशवृद्विक्रम संभाव्य) तथा न लोकान्ते सम्बद्धो नापि पुरुषे सम्बद्धो बाह्यावधिरेव स्तोकदेशवर्ती ४, यस्त्वलोके सम्बद्धः स पुरुषे नियमात् सम्बद्ध एव, अभ्यन्तरावधेरेवालोकदर्शनसमर्थत्वात् ॥६७।। गतं क्षेत्रद्वारं १३ ।
गइ नेरइयाईया, हिट्ठा जह वणिया तहेव इह ।
इइढी एसा वणिज्जइत्ति तो सेसियाओऽवि ॥६॥ गति रयिकादिका, गतिग्रहणं शेषस्य इन्द्रियादिद्वारकलापस्योपलक्षणं, तताऽयमर्थः-ये गत्यादयः सत्पदप्ररुपणाहेतवो ये च द्रव्यप्रमाणादयोऽष्टौ द्वारविशेषास्ते यथा अधस्तान्मतिश्रुतयोवर्णितास्तथैवेहापि द्रष्टव्याः, अयं तु विशेषः-ये पूर्व मतिज्ञानस्य प्रतिपत्तारः प्रागुक्तास्तेऽवधिज्ञानस्यापि प्रतिपत्तारः, नवरं पूर्व मतेः अवेदका अकषायिणो मनापर्यायज्ञानिनश्च पूर्वप्रतिपन्ना उक्ताः इह तु प्रतिपद्यमाना अपि द्रष्टव्याः, यतः श्रेणिद्वये वर्तमानानामवेदकानामकषायाणां च केषाश्चिदवधिरुत्पद्यते, येषां चानुत्पन्नावधिज्ञानानां मतिश्रुतचारित्रबतां मनःपर्यायज्ञानं प्रथममेवोत्पद्यते, तत्र मनःपर्यायज्ञानिनः केचित् पश्चादवधिज्ञानस्य प्रतिपत्तारः स्युः, अन्यच्चअनाहारका अपर्याप्तकाश्च मतेः पूर्वप्रतिपन्ना एवोक्ताः नतु प्रतिपद्यमानकाः, इह तु
॥१२॥
For Private & Personal Use Only
Jain Education Inter
library.org