SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव०अवचूणिः | ॥९॥ तथा पश्यन्ति सर्वतः, खलुरेवार्थः, सर्वास्वेव दिक्षु विदिक्ष्विति, नववधेरबाह्या भवन्तीत्यस्मादेव सर्वत इत्यस्य लब्धत्वात् सर्वतो ग्रहणमतिरिच्यते, नैष दोषः, अभ्यन्तरत्वाभिधानेऽपि सर्वतो दर्शनाप्रतीतेः, न खलववधेरभ्यन्तरत्वेऽपि सति सर्वे सर्वतः पश्यन्ति, कस्यचिदिगन्तरालादर्शनात् , विचित्रत्वादवधेः, ततः सर्वतो दर्शनख्यापनार्थ सर्वत इत्युक्तं, शेषास्तिर्यग्नरा एव देशेन एकदेशेन पश्यन्ति, नतु शेषा देशत एव, तिर्यग्नगणां देशतः सर्वतश्च यथायोगमवधिज्ञानदर्शनोत् , इति सावधारणं ज्ञेयं, अथवाऽन्यथा व्याख्याते नेरयिकादेवतीर्थकरा अवघेरवाया भवन्ति, कोर्थ ? नियतावधयो भवन्ति, नियमेनैषामवधिर्भवतीति भावः, एवं चाभिहिते संशय:-किं देशेन पश्यन्ति उत सर्वतः इति, तदपनोदार्थमाह पश्यन्ति सर्वतः खलु, नतु देशतः अपर आह-ननु पश्यन्ति सर्वतः खल्वित्येतावदेवास्तां अवधेरवाया भवन्तीत्येतन्न युक्तं, यतो नियतावधित्वप्रतिपादनार्थमिदमुच्यते, नियतावधित्वं च देवनारकाणां "दोण्हं भवपच्चइयं, तंजहा-देवाणं नेरइयाणं चेति वचनात् सिद्धं, तीर्थकृतां तु पारभविकावधिसमन्वागमस्यातिप्रसिद्धत्वात् , उच्यते, इह यद्यपि “दुहं भव" इत्यादि वचनान्नारकादीनां नियतावधित्वं लब्धं तथापि सर्वकालं तेषां नियतावधिरिति न लभ्यते तत्ख्यापनार्थमेवधेरबाह्या भवन्तीत्युक्तं, यद्येवं तर्हि तीर्थकृतामवधेः सर्वकालावस्थायित्वं विरुध्यते, न छद्मस्थकालस्यैव तेषां विवक्षणात्, अथवा केवलोत्पत्तावपि, वस्तुतस्तत्परिच्छेदग्याप्यनिष्टत्वात् , केवलेन सुतरी संपूर्णानन्तधर्मकवस्तुपरिच्छित्तेः, शेषं प्राग्वत् ॥६६।। गतं देशद्वा । ॥९ ॥ Jain Education Inter For Privale & Personal use only Jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy