________________
प्राप्तौ सत्यां भाज्या-विकलपनीयाः, कः ? उत्पादः-उत्पत्तिः प्रतिपातो-ध्वंसः तदुभयं च एकसमयेन, किं विषय | श्रीधीरसुन्दरसू०
इत्याह-द्रव्ये क्षेत्रो काले भावे च, अपिचशब्दा यथायागं पूरणसमुच्चयार्थाः, एकस्मिन् द्रव्यादौ विषये बाह्यावधेः आव०अवचूर्णिः
कदाचिदुत्पादः कदाचिद्व्ययः कदाचिदुभय, ननूत्पादप्रतिपातयोः परस्परविरुद्धत्वात्कथमुभयमेकसमयेनेति ? नैष ॥८७॥
दोषः, विभागेन भावात् , तथा चात्र दावानलदृष्टान्तः, दावानलः खलु एककाल एव एकतो दीप्यतेऽन्यतश्च ध्वंसते, तथाऽवधिरप्येकदेशे जायतेऽन्यत्र प्रच्यवते ॥१२॥
अभितरलद्धीए उ तदुभयं नत्थि एगसमएणं ।
उप्पा पडिवाओऽविय, एगयरो एगसमएणं ॥६३॥ इह दृष्टुर्य सर्वत्रः संबद्ध प्रदीपस्य प्रभानिकरवत् सोऽभ्यन्तरावधिस्तस्य-अभ्यन्तस्याभ्यन्तरावधेः, लब्धिः प्राप्तिस्तस्यां सत्यां, तुर्विशेषणार्थः, किं विशिनष्टि? तच्चतदुभयं चोत्पादप्रतिरूपमुभय, नास्ति एकसमयेन द्रव्यादौ
विषये इत्यनुवर्तते कि तर्हि १, उत्पादः प्रतिपातो वा एकतर एव एकसमयेन, अपिरेवार्थों स च मिन्नक्रमस्तथैव Nच योजितः अयं भावार्थः प्रदीपस्यैवोत्पाद एव वा प्रतिपात एव वा एकसमयेनाभ्यन्तरावधेरुपजायते, INनतूभयमप्रदेशावधित्वात्, न घेकस्यकपर्यायेणोत्पादव्ययौ युगपद्भवितुमर्हतः, परस्परविरोधात् ॥६३।।
इदानीं प्रसङ्गत एवोत्पादप्रतिपाताधिकारे द्रव्यपर्याययोः परस्परमुपनिवन्धं प्रतिपादयन्नाह
गोथा-६३
॥८७॥
Sain Education International
For Private & Personal use only
www.jainelibrary.org