________________
श्रीधीरसुन्दरसू० आव अक्चूर्णिः
॥८६॥
तद्यथा-प्रतिपतनशीलानि प्रतिपातीनि, कियन्तमपि कालं स्थित्वा ततो ध्वंसगमनस्वभावानीति भावः, तद्विपरीतान्यप्रतिपातीनि, आमरणान्तभावीनीत्यर्थः उभयस्वभावानि मिश्राणि, एतानि च स्पर्धकानि मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्ति, न देवनारकावधौ, ननु तीव्रमन्दद्वारे प्रस्तुते स्पर्धकावधिस्वरूपकथनं कथं युक्तम् ?, उच्यते, इह प्राय आगामिकाप्रतिपातीनि स्पर्धकानि तीव्रशुद्धियुक्तत्वात्तीवाणि, अनानुगामिप्रतिपातीनि त्वविशुद्धत्वान्मन्दानि, मिश्राणि च मध्यमानि, ततस्तीत्रमन्द द्वारमेवेत्यदोषः, ननु आनुगामिकाप्रतिपातिस्पर्द्ध कयोः परस्परं कः प्रतिविशेषः? को वाऽनानुगामिकप्रतिपातिस्पर्द्धकयोः ?, उच्यते, अप्रतिपातिस्पर्द्धकमानुगामिकमेव भवति, आनुगामिकं तु प्रतिपात्यप्रतिपाति चेति विशेषः, तथा प्रतिपाति पतत्येव, पतितमपि च देशान्तरे गतस्य कदाचिजायते, न चेत्थमनानुगामिकं, इत्यनानुगामिकप्रतिपातिनोविशेषः ॥६।। उक्त तीव्रमन्दद्वारम् । अथ गाथाद्वयन प्रतिपातोत्पादद्वारमाह
वाहिरलंभे भज्जो दवे खित्ते य कालभावे य ।
उप्पा पडिवाओऽविय, तं उभयं एगसमएणं ॥६२॥ इह दृष्टुरवधिमतो योऽवधिः तस्यैव एकस्यां दिशि भवति स बाह्यावधिः, अथवा अनेकास्वपि दिक्षु यः || स्पर्धकावधिरन्योन्यं विच्छिन्नो भवति सोऽपि याद्यावधिः, स्थापना अथवा सर्वतः परिमंडलाकारोऽपि योऽवधिवधिमतोऽगुलमानादिना क्षेत्रव्यवधानेन सर्वतोऽसंवद्धः सोऽपि बाह्यावधिः, तस्यैवंविधस्य बाह्यस्य-वाह्यावधेामे
गाथा-६२
॥८६॥
Jain Education Inten
For Private & Personal Use Only