________________
श्रीधीरसुन्दरसू० आव०अवचूणिः
८४||
कोऽप्यनन्तभागाधिकानि पश्यति, अपरस्तु तेभ्योऽनन्तगुणवृद्धानि, नत्वसंख्येयभागादिना वृद्धानि, तथास्वाभाव्यात् , एवं हानिरपि, कोऽपि पूर्वोपलब्धेभ्योऽनन्तभागहोनानि द्रव्याणि पश्यति, कोऽप्यनन्तगुणहीनानि, तथास्वाभाव्यादेव, पर्यायेषु पुनः पूर्वोक्त पहिवधा वृद्धिर्हानिर्वा भवति, एतेषां च द्रव्यक्षेत्रकालभावानां परस्परसंयोगे चिन्त्यमाने एकस्य वृद्धावेवापरस्य वृद्धिः, नत्वेकस्य हानावन्यस्य वृद्धिः, एकस्य हानावेवापरण्य हानिः, नत्वेकस्य वृद्धावपरस्य हानिः, अन्यच्च एकस्य द्रव्यादेर्भागेन बृद्धी हानौ वा जायमानायामपरस्यापि प्रायो भागेनैव वृद्धिहानी भवतः, नतु गुणकारेण, गुणकारेणाप्येकम्य वृद्धिहान्योः प्रवर्तमानयोरपरस्यापि प्रायो गुणकारेणैव प्रवर्तेत नैव भागेन,
ननु क्षेत्राधाराणि द्रव्याणि द्रव्याधाराश्च पर्यायाः, यादृश्येव चाधारस्य वृद्धिराधेयस्यापि तादृश्येव युक्ता, तथा च सति क्षेत्रस्यासंख्येयभागादिवृद्धौ तदाधेयद्रव्याणामपि तन्निबन्धनत्वादसंख्येयभागादिवृद्धिः स्यात् , द्रव्यस्यानन्तभागादिवृद्धौ सत्यां तत्पर्यायाणामप्यनन्तभागादिवृद्धिरेव प्रामोति न पदस्थानकं, पर्यायाणां द्रव्य निबन्धनत्वात् , उच्यते, सामान्यन्यायमङ्गो कृत्येत्थमेव, कोऽर्थः ? यदा क्षेत्रानुवृत्या पुग्दलाः परिसंख्यायन्ते पुग्दलानुवृत्या च तत्पर्यायास्तदा क्षेत्रस्यासंख्येयादिभागवृद्धिहान्योः सत्योर्द्रव्यस्यापि तदनुवृत्या तथैव वृद्धिहानी प्राप्नुतः, द्रव्यस्यापि | वाऽनन्तभागादिवृद्धिहान्योस्तत्पर्यायाणामपि तदनुवृत्या तथैव वृद्धिहानी स्यातां. न चात्रैवं, यस्मात्क्षेत्रानन्तगुणाः पुग्दलाः, पुग्दलेभ्योऽपि तत्पर्याया अनन्तगुणाः, अवधिश्च क्षयोपशमाधीनः, क्षयोपशमश्च तत्तद्र्व्यादिसामग्रीवशाद्विचित्रपरिणामः, केवलज्योतिषा च भगवतैवस्वरूप एवोपालब्धः, ततो यथोक्तस्वरूपे एव वृद्धिहानी प्रतिपत्तव्ये, नान्यथेति न कश्चिद्दोषः ॥५९।।
॥८४॥
For Privale & Personal use only
IMinelibrary.org
Jain Education Intern