________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥८ ॥
या वा भवन्ति, विचित्ररूपाणि, कानिचित्पर्यंततिष्वात्मप्रदेशेषत्पद्यन्ते, तत्रापि कानिचित्पुरतः कानिचित्पृष्ठतः
कानिचिदधोभागे कानिचित्मध्यवर्तिध्वात्मप्रदेशेषु, तत्र यः पर्यन्तवातिध्वात्मप्रदेशेष्ववधिरुत्पद्यते स आत्मनः पर्यन्ते स्थित इति-कृत्वा अन्तगत इत्यभिधीयते, तैरेवात्मप्रदेशैः पर्यन्तवर्तिभिः साक्षादेव बोधः, अथवा औदारिकशरीरस्यान्ते गतः-स्थितोऽन्तगतः, औदारिकशरीरमधिकृन्य कयाचिदेकया दिशोपलम्भात् , इदमपि स्पर्द्धकरूपमवधिज्ञानं, अथवा सर्वेषामात्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीगन्ते कयाचिदेकया दिशा यद्वशादुपलभते सोऽप्यंतगतः, विचित्रो हि देशाद्यपक्षया कर्मणां क्षयोपशमः, ततः सर्वेषामात्मप्रदेशानामित्थंभूत एव स्वसामग्रीवशात् क्षयोपशमः संवृत्तो यदौदारिकशरीरमपेक्ष्य कयाचिद्विवक्षितया दिशा पश्यतीत्येप द्वितीयोऽर्थः तृतीयः पुनरयं-एकदिग्भाविना तेन यदुद्योतितं क्षेत्रं तस्यान्ते वर्तते सोऽवधिरन्तगतः, अवधिज्ञानवतस्तदन्ते वर्तमानत्वात् , अन्तगतश्चावधिविधा पुरतोऽन्तगतः पृष्ठतोऽन्तगतः पार्श्वतोऽन्तगतश्च, तत्र यथा कश्चित् पुरुषो हस्तगृहीतया दीपिकया पुरतः प्रेर्यमाणया पुरत एव पश्यति नान्यत्र एवं येनावधिना तथाविधक्षयोपशमभावतः पुरत एव संख्येयान्यसंख्येयानि वा योजनानि पश्यति सोऽवधिः पुरतोऽन्तगतः, एवं यथा पृष्ठतो हस्तेन धियमाणया दीपिकया पृष्ठत एव पश्यति एवं येनावधिना पृष्ठत एव संख्येयान्यसंख्येयानि वा योजनानि पश्यति स पृष्ठतोऽन्तगतः, येन पुनः पार्श्वत एकतो द्वाभ्यां वा संख्येयान्यसंख्येयानि वा योजनानि पश्यति स पार्श्वतोऽन्तगतः, मध्यगतः इत्यत्रापि त्रिधा व्याख्यानं, इह मध्यं प्रसिद्ध दण्डादेवि, तत्रात्मप्रदेशानां मध्ये मध्यवत्तिष्वात्मप्रदेशेषु गतः-स्थितो मध्यगतः अयं च
॥८॥
For Private & Personal use only
helibrary.org
Jain Education Internet