________________
श्रीधीरसुन्दरसू० आव० अवणिः
॥७९॥
-
-
भवति येन परिधानं न चलाचलं भवति, कन्योनामेवैप मस्तकप्रदेशेन प्रक्षिप्यते, तदाकारोऽवधिरनुत्तरसुराणां, एष च नारकादीनामनुत्तरसुरपर्यन्तानामेतदाकारः सर्वकालनियतः प्रत्येतव्यः, तिर्यग्मनुष्येष्ववधिर्नानाविधसंस्थानसंस्थितः, संस्थानशब्दलोपोऽत्र द्रष्टव्यः, स्वयंभूरमणजलधिवासिमत्स्यगणवत् , अपितु तत्रापि मत्स्यानां वलयाकारसंस्थान निषिद्धं तिर्यग्मनुष्यावधिस्तुतदाकारोऽपि भवति, भणितस्तीर्थकृदादिमिः, अनेन च संस्थानप्रतिपादनेनेमावेदितं भवति भवनपतिव्यन्तराणामूर्ध्व प्रभूतोऽवधिः, वैमानिकानामधः, ज्योतिष्कनारकाणां तिर्यक्, विचित्रस्तु नरतिरश्चां ॥ उक्त संस्थानद्वारम् ॥५५॥ अथसप्रतिपक्षानुगामिकद्वारार्थमाह ---
अणुगामिओ उ ओही, नेरइयाणं तहेव देवाणं ।
अणुगामी अणणुगामी, मीसो य मणुस्सतेरिच्छे ॥५६॥ गच्छन्तं पुरुषमासमन्तादनुगच्छतीत्येवंशीलः अनुगामी अनुगाम्येवानुगामिकः, स्वार्थे कः, आनुगामिकावधिविधा अन्तगतो मध्यगतश्च, तत्रान्तगत इति कः शब्दार्थ ?, उच्यते, इह पूर्वाचार्यप्रदर्शितमर्थत्रय, अन्ते-आत्मप्रदेशानां पर्यन्ते गतः-स्थितोऽन्तगतः, कोऽर्थ ? इहावधिरुत्पद्यमानः कोऽपि स्पर्द्धकरूपतयोत्पद्यते, स्पर्द्धकं च नाम | अवधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः, तानि चैकजीवस्याऽसंख्येयानि
गोथा-५
॥७९॥
Jain Education international
For Private & Personal use only
www.jainelibrary.org