________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥८१॥
स्पर्द्धकरूपः सर्वदिगुपलम्मकारणं मध्यवर्तिनामात्माप्रदेशानामवधिज्ञेयः, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽप्यौदारिकशरीरमध्यभागेनोपलब्धेः तन्मध्ये गतो मध्यगतः, अथवा तेनावधिना यदुद्योतितं क्षेत्रं सर्वासु दिक्ष तस्य मध्ये-मध्यभागे गत:-स्थितो मध्यगतः, अवधिज्ञानिनस्तदुद्योतितक्षेत्रमध्यवर्तित्वात् , तुरेवार्थः, आनुगामिक एव यथोक्तरूपो नारकाणां, नान्यः, तथैवानुगामिक एव देवानां, तथा मनुष्येषु तिर्यक्षु चानुगामिक उक्तशब्दार्थः; तथाऽनानुगामिकः-अवस्थितः शृङ्खलादिनियंत्रितप्रदीप इव यो गच्छन्तं पुरुषं नानुगच्छति, यस्योत्पन्नस्यावधेर्देशो | व्रजति स्वामिना सह अपरश्च देशान्तरचलितपुरुषस्योपहतैकलोचनवदन्यत्र न ब्रजति स मिश्र उच्यते, अयं गाथार्थः, देवनारकाणां सर्वात्मप्रदेशजाभ्यन्तरावधिरूपमध्यगत आनुगामिकोऽवधिः, तिर्यग्मनुष्याणां तु सर्वभेदः, आनुगामिकोऽनानुगामिको मिश्रश्चेति भावार्थः, उक्तमानुगामिकद्वारम् ।५६।। अथावस्थितद्वारं गाथाद्वयेनाह, अवस्थितत्वञ्चावधेराधारभूतक्षेत्रतः उपयोगतो लन्धितश्च, तत्राद्यगाथयाद्यऽऽभेदावाह
खित्तस्स अवट्ठाणं, तित्तीसं सागरा उ कालेणं ।
दन्ने भिण्णमुहुत्तो, पज्जवलंभे य सत्तट्ठ ॥५७॥ अवस्थितिरवस्थानं, अवधेगधाररूपतालक्षणेन पर्यायेण क्षेत्रस्यावस्थान, कालेन कालमाश्रित्य त्रयत्रिंशत्सागरोपमाण्येव, तुरेवार्थः, अनुत्तरसुरा यत्र क्षेत्र येष्वेव प्रतिनियतक्षेत्रप्रदेशेषु जन्मसमयेऽवगाढास्ते प्रायस्तौवाऽऽभवक्षयमवतिष्ठन्ते, ततस्तानधिकृत्योत्कर्षतोऽवधेरवस्थानं त्रयस्त्रिंशत्सागराणि, अथोपयोगमधिकृत्यावधेरवस्थानं, द्रव्ये-द्रव्यविषये तत्रान्यत्र
गाथा-५७
॥८
॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org