________________
श्रीधरसुन्दरसू० आव अवचूर्णिः
॥७६॥
Jain Education Interni
एए सिमसंखिज्जा, तिरियं दीवा य सागरा चेव । बहुअअरं ज्वरिमगा, उड् सगंकप्पथूभाई ॥ ५१॥
एतेषां सौधर्मादिदेवानामसंख्येयास्तिर्यग् द्वीपाच सांगराच अवधिपरिच्छेद्यतया ज्ञेया इति वाक्यशेषः, तदेव द्वीपसमुद्रासंख्येयकं बहुतरकं प्रभूततरं पश्यन्ति उपर्युपरिदेवलोकनिवासिनो देवाः, ऊवें स्वकलपस्तूपाद्येव यावत्, आदिशद्वात् ध्वजादिग्रहः, जघन्यतः पुनरमी सर्वेऽपि देवाः सोधर्मादयोऽनुत्तरविमानवासिपर्यन्ता अड्गुलासंख्येयभागमात्रं क्षेत्रं पश्यन्ति, नन्वगुलासंख्येयभागमात्रो जघन्योऽवधिस्तिर्यग् मनुष्येष्वेवाशेषाणां मध्यम एवेति वक्ष्यति तत्कथं वैमानिकानां सर्वजघन्य उक्तः ? उच्यते, सौधर्मादिदेवानां पारभविकोऽप्युपपातकालेऽवधिः संभवति, उपपातानन्तरं तु देवभवप्रत्ययजस्ततो न कश्चिद्वशेषः ॥ ५१ ॥
सम्प्रति सामान्यतो वैमानिकवर्जदेवानामवधिक्षेत्रमाह
संखेज्जजोयणा खलु, देवाणं अद्धसागरे ऊ । ते परमसंखेज्जा, जहण्णयं पंचवीसं तु ॥ ५२॥
खलुखधोरणार्थोऽस्य चोभयथा सम्बन्धः, यथा अर्द्धसागरे न्यूने एव चायुषि सति यथोक्त क्षेत्रं ततः परं सम्पूर्णार्द्धसागरोपमादावायुषि त्वसंख्येयानि योजनान्यवधिक्षेत्रं, ऊर्ध्वमधस्तिर्यक् च संस्थानविशेषाद्वक्ष्यमाणाद्भाव्यम्,
For Private & Personal Use Only.
गाथा - ५१
गाथा - ५२
॥७६॥
inelibrary.org