________________
श्री धीरसुन्दरसू० आव० अवचूर्णि
॥७७॥
Jain Education International
जघन्यकमवधिक्षेत्रं पश्चविंशतिरेव योजनानि, तुरेवार्थः, देवानामिति वर्तते, एतच्च दशवर्षसहस्रस्थितीनां भवनपतिव्यन्तराणां ज्ञेयं, ज्योतिष्काः, पुनरसंख्येयस्थितिकत्वाञ्जघन्यतीऽपि संख्येययोजनप्रमितान् संख्येयान् द्वीपसमुद्रान् पश्यति उत्कर्षतोऽपि संख्येययोजनप्रमितानेव संख्येयान् द्वीपसमुद्रान् केवलमधिकतरान् ॥५२॥ अथायमेव चावधिर्येषामुत्कृष्टादिभेदमिन्नो भवति तानुपदर्शयन्नाह -
उकोसो मणुसुं, मणुस्सतिरिएसु य जहण्णो य । उक्कोस लोगमित्तो, पडिवाइ परं अपडिवाई ॥५३॥
इह द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टोऽवधिर्मनुष्वेष्वेव न देवादिषु तथा नरतिर्यक्ष्वेव जघन्योऽवधिः, न देवादिषु च एवार्थः तथा प्रतिपातिष्ववधिषु मध्ये उत्कृष्टावधिः प्रतिपतितुं शीलमस्येति प्रतिपाती, लोकमात्र एव, मात्रा शब्दोऽलोक व्यवच्छेदार्थः, यद्यवधिः प्रतिपतति तत उत्कर्षतो लोकमात्र एव, लाकात् परमेकमप्याकाशप्रदेश पश्यन् नियमादप्रतिपाती ॥५३॥
उक्त क्षेत्रपरिमाणद्वारं, अधुना संस्थानद्वारव्याख्याचिसयाह
थियायार जहण्णो, वट्टो उक्को समायओ किंचि । अजहण्णमणुकोसो य खित्तओ गढाणो ॥ ५४ ॥
For Private & Personal Use Only
गाथा - ५३
गाथा - ५१ ॥७७॥
www.jaintelibrary.org