________________
गाथा
श्रीधीरसुन्दरसू० ओव०अवचूर्णिः
॥७४||
चत्तारि गाउयाई, अछुट्टाई तिगाउया चेव ॥
अढाइज्जा दुण्णि य, दिवड्ढमेगं च निरएसु ॥४७॥ उत्कृष्टावधिक्षेत्रं चतुर्गव्यूतादि एकगव्युतं च यथासंख्य सप्तस्वपि पृथ्वीषु ज्ञेयं, उत्कृष्टमपि चार्चगव्यूतोनं जघन्यं स्यात् , तथाहि-रत्नप्रभायामुत्कृष्टमवधिक्षेत्रमान चत्वारि गव्युतानि जघन्यम चतुर्थानि, शर्कराप्रभायामुत्कृष्टमर्द्ध चतुर्थानि सार्दानि त्रीणि गव्यूतानि जघन्य त्रीणि गत्तानि इत्यादिः, शेषाऽक्षरार्थः, त्रिगव्यूतमर्द्धतृतीयानि द्वे अध्यर्द्ध एकं चेति, प्राग् जघन्यं गव्यूतमिति यदुक्तं तदुत्कृष्टजघन्यापेक्षया, इदमत्राकृतं-सप्तस्वपि पृथिवीषु यद् गव्यूतचतुष्टयादिकमुत्कृष्टमवधिक्षेत्रपरिमाणं तन्मध्ये सप्तमपृथिव्यां गव्यूतमवधिक्षेत्र स्वस्थाने उत्कृष्टमपि शेषपृथिव्युत्कृष्टापेक्षयासर्वस्तोकत्वाज्जघन्यमुक्त, न चैतत् स्वमनीषिका विज्जृम्भितं, यत आह-भाष्यकृत्-"अधुट्ठगाइयाई" (वि.६९४) उक्तार्था वृत्तावव्याख्याता च ॥४७॥ अथ देवावधिं गाथात्रयेणाह
सक्कीसाणा पढमं, दुच्चं च सणंकुमारमाहिंदा ॥
तच्चं च बंभलंतग, सुक्कसहस्सारय चउत्थीं ॥४८॥ सौधर्मेशानकल्पदेवेन्द्रौ प्रथमा रत्नप्रभाभिधानां पृथ्वीं पश्यन्तीति, शक्रेशानग्रहणं चोपलक्षणं तेन सौधर्मेशानकल्पनिवासिदेवाः परिगृह्यन्ते, एवं सर्वत्र ज्ञेयं, द्वीतीयां च पृथिवीं सनत्कुमारमाहेन्द्रौ-तृतीचतुर्थकलपदेवेशी, एवं तृतीयां
गाथा||७४॥
Jain Education Inter
For Privale & Personal use only
now.jainelibrary.org