SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव०अवणिः ॥७३॥ गोथा-४६ स्वावगाहनव्यवस्थापितोत्कृष्टासंख्येयसूक्ष्मबोदराऽग्निजीवसूच्या परमावधिमतो जीवस्य सर्वतो भ्राम्यमाणया यत् प्रमाणक्षेत्र व्याप्यते तत्प्रमाणा विज्ञेया । परमावधिकलितश्च नियमादंतमुहर्तमाण केवलालोकपद्वीमासादयति॥४५॥ तदेवं मनुष्यानधिकृत्य क्षायोपशमिकोऽनेकप्रकार उक्तोऽवधिः सम्प्रति तिरश्चोऽधिकृत्य तं प्रतिपपादयिषुराहः आहारतेयलंभो, उक्कोसेणं तिरिकखजोणीसु ॥ गाउय जहण्णामोही, नरएसुउ जोयणुक्कोसो ॥४६॥ आहारश्च तेजश्च आहारतेजसी तयोलार्भः प्राप्तिः-परिच्छित्तिः, सूत्रो च लम्भ इति निर्देशः प्राकृतत्वात् , आहारतेजोग्रहणमुपलक्षणं, तेन यान्यौदारिकवैक्रियाहारकतैजसद्रव्याणि यानि च तदन्तरालेषु तदयोग्यानि तेषां सर्वेपामपि परिग्रहः, योनियोनिमतोरभेदोपचारादुत्कर्षतस्तिर्यग्योनिकसत्वविषयोऽवधिः, स औदारिकर्व क्रियाहारकतेजोद्रव्याणि तदन्तरालद्रव्याणि च सर्वाणि पश्यतीति, एतद्रव्यानुसारेण क्षेत्रकालभावा अपि परिच्छेद्यतया स्वयमभ्ययाः ॥ ___अथ भवप्रत्ययोऽवधिः प्रोच्यते, स च सुरनारकाणामेव, स्यादल्पत्वाश्चादौ नारकाणां, इह नरका आश्रयाः आश्रयाश्रयिणोरभेदापचारात्, नरकेषु पुनरुत्कृष्टेष्वेव मध्ये जघन्योऽवधिः क्षेत्रतो गव्यूतं पश्यति, स च सप्तमपृथिव्यां, उत्कृष्टस्तु योजनं पश्यति, स चाद्यपृथ्व्यां, इत्थंभूतक्षेत्रानुसारेण द्रव्यादयः स्वयं भाव्याः ॥४६॥ तदेवं सामान्येन नारकजातिमधिकृत्याभिहितमुत्कृष्टमवधिक्षेत्रपरिमाणम् , अथ तदेवं रत्नप्रभादिपृथिवीविभागेनाह ॥७३॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy