________________
श्रीधीरसुन्दरसू० आव अवणिः
॥७२।।
भवपृथक्त्वं न त्वेक प्रदेशावगाढस्य परमाण्वादेरतिसूक्ष्मत्यात्तदुपलम्भे बादराणां कार्मणशरीरादीनामुपलंभो गम्यत एव, | ततस्तेषां पृथगुपन्यासो व्यर्थः, एतदयुक्तं, यः सूक्ष्म परमाण्वादि पश्यति तेन बादरकामणशरीरादिकमऽवश्यं द्रष्टव्यं यो वा बादरं पश्यति तेन सूक्ष्ममप्यवश्यं ज्ञातव्यमिति न कोपि नियमः। यतः "तेआभासादवाण"मित्यादिवचनाप्रथमोप्तत्तावगुरुलघुद्रव्यं पश्यन्नप्यवधिन गुरुलघूपलभतेऽन्यद्वातिस्थरमपि घटादिकं न लभते, तथा मनःपर्यायज्ञानी मनोद्रव्याणि सूक्ष्माण्यपि पश्यति, चिंतनीयं तु घटादिकं स्थूलमपि न पइयति तत एवं विज्ञानवैचित्र्यः संभवे सति संशयव्यवच्छेदार्थ एकप्रदेशावगाढग्रहणे सत्यपि शेषविशेषणोपादानमदुष्टमेव ॥४४॥ तदेवं परमावधेव्यरूपो विषय उक्तोऽधुना क्षेत्रकालौं तद्विषयतया प्रतिपिपादयिषुराह
परमोही असंखिज्जा, लोगमित्ता समा असंखिज्जा ।
रुवगयं लहइ सव्वं, खित्तोवमिअं अगणिजीवा ॥४५॥ परमावधिः क्षेत्रतोऽसंख्येयनि लोकमात्राणि खण्डानीति गम्यते-लभ ये । कालतस्तुतेसमा-उत्सपिण्यवसर्पिणीर- | संख्येया एव लभते, तथा द्रव्यतो रूपगतं मूर्त द्रव्यजातं लभते पश्यति सर्व, भावतस्तु प्रतिद्रव्यं संख्येयानसंख्येयान्वा पर्यायानिति यदुक्तमसंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति तदसंख्येयकमनमधिकं च कोऽपि संकल्पयेदतो नियतपरिमाणप्रतिपादनार्थमाहः-उपमीयतेऽनेनेत्युपमित क्षेत्रस्योपमितं-क्षेत्रप्रमाणकारिणः प्रागभिहिता एवाऽग्निजीवाः, इदमुक्तं स्यात् उत्कृष्टोवधिविषयत्वेन क्षेत्रतो येऽसंख्येया लोका उक्ताः ते प्रागभिहित
गाथा-४५
॥७२॥
Jain Education Intember
For Private & Personal use only
Sanelibrary.org