________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥७१॥
गाथा-४४
विषयः तर्हि यत् प्रागुक्तं 'तेजसभाषापान्तरालद्रव्यदर्शिनोऽङगुलावलिकासंख्येयभागादिक्षेत्रकालमान' तद्विरुध्यते, नैष दोषः, इह विचित्रा वस्तुशक्तयः, ततोऽपान्तरालद्रव्याणि प्रारम्भकस्यावधेविषयः तैजसद्रव्याण्यधिकृत्येत्यविरोधः, ननु जघन्यावधिप्रमेयं प्रतिपादयता गुरुलध्वगुरुलघु च द्रव्य पश्यतीत्युक्तं, न सर्वमेव, विमध्यमावधिप्रमेयमपि चाङगुलाबलिकासंख्येयभागाद्यभिधानान्न सर्वद्रव्यरूपं, तत्रस्थानामेव दर्शनात् ।।३।। तत उत्कृष्टावधिरपि किमसर्वद्रव्यरूपमालम्बनमाहोश्चित् सर्वद्रव्यमालम्बनमिति संशयः, तदपनोदार्थमाह-.
एगपएसोगाढं परमो ही लहइ कम्मगशरीरं ।
लहइ अ अगुरुलघुअं. तेयसरीरे भवपुहुत्तं ॥४४॥ प्रकृष्टो देशःप्रदेशः एकश्वासो प्रदेशश्च तस्मिन्नवगाढं । व्यवस्थित एक प्रदेशावगाढं परमाणुद्वयणुकादिद्रव्यं परमावधिरुत्कृष्टावधिलभते पश्यति अवध्यवधिमतोरभेदोपचारादवधिः पश्यतीत्युक्तं तथा कार्मणशरीरं च लभते, ननु परमाणुद्वयणुकादिद्रव्यमनुक्तं कथं गम्यने तदालंघनत्वेनेति ततश्चोपात्तमेव कार्मणमिदं भविष्यति, न, तस्यैक प्रदेशशावगाहित्वामनुपपणेः, तथा 'लभते चागुरुलघु' च शब्दाद्गुरुलघु च. जात्यपेक्षया सर्वनैकवचनं । ततश्च सर्वाण्यप्येकप्रदेशावगाढानि कार्मणशरीराणि अगुरुलघूनि गुरुलधूनि च द्रव्याण्यसौ पश्यतीति प्रतिपत्तव्यं । तथा तैजसांगविषयेऽवधौ कालतो भवपृथक्त्वं पश्यति य एव प्राक् तैजसं पश्यतोऽसंख्येयकाल उक्तः स एव भवपृथक्त्वेन विशिष्यते देवगत्यादिगमनादत्राप्यसंख्येयो ज्ञेयः, स च पल्योपमाऽसंख्येयभागकालो नाधिकः, एतन्मध्य एव
॥७१॥
Jan Education Interational
For Private & Personal use only
www.jainelibrary.org