________________
श्रीधीरसुन्दरसू० ओव०अवचूर्णिः
॥७ ॥
गाथा-४३
प्रस्तुते केवलयोरुपनिवन्धप्ररूपणमसमीचीन, नैष दोषः, द्रव्योपनिबन्धस्यात्रापि सामर्थ्यप्रापितत्वात् , तथाहि-पूर्व 'काले चउण्ह वुढि' इत्युक्तं, कालवृद्धिश्चात्र अनन्तरोक्तकर्मद्रव्यदर्शकापेक्षया प्रतिपादिता, ततोऽस्य समस्तलोकस्तोकोनपल्यो पमदर्शिनः सामर्थ्यात्कर्मद्रव्योपरि यत् किमपि ध्रुववर्गणादि तद्विषयत्वेन द्रष्टव्यं, अत एव उपयुपरि द्रव्याणि पश्यतः क्षेत्रकालवृद्धिक्रमेण परमावधिसम्भवोऽप्युनुमेयः ॥४२॥
तेयाकम्मसरीरे, तेआदब्वे अ भासदब्वे अ ॥
बोद्धव्वमसंखिज्जो दीवसमुदाय कालो अ॥४३॥ शरीरशब्दः प्रत्येकं संयोज्यः तैजसशरीरे कार्मणशरीरे च, एतद्विषयेऽवधौ, तथा तैजसवर्गणाद्रव्यविषये भाषावगणाद्रव्यविषये चाविधौ क्षेत्रतः प्रत्येकमसंख्येयः द्वीपसमुद्राः कोलश्चासंख्येयः पलयोपमासंख्येयभागरूपो विषयत्वेन ज्ञेयः, इह यद्यप्यविशेषेणोक्तः तथापि तैजसशरीरकामणशरीरस्य सूक्ष्मत्वात्तदृर्शिन इदमेव द्वीपसमुद्रकालासंख्येयत्वं बृहद् द्रष्टव्यं, कार्मणशरीरादप्यबद्धानां तैजसवर्गणाद्रव्याणां सूक्ष्मत्वाद् बृहत्तरं, तेभ्योऽपि भाषाद्रव्याणां, ननु पूर्व कर्मद्रव्यदर्शिनः प्रत्येकं लोकपल्योपमभागाः संख्येया विषयत्वेनोक्ताः, अत्र तु कार्मणशरीरद्रव्यदर्शिनः किमिति स्तोकावेव | क्षेत्रकालौ विषयत्वेनाभिहिताविति ?, उच्यते, पूर्व कर्मद्रव्याणि कर्मवर्गणागतानि जीवेन शरीरतया बद्वानि उक्तानि, अत्र शरीरतया बद्धानि, बद्धानि चाबद्धेभ्यो बादराणि भवन्ति, अव्यूततन्तुभ्यो व्यूततन्तुषु तथा दर्शनात् , ततः कामणशरीरदर्शिनः स्तोको क्षेत्रकालावुक्ताविति, परस्त्वाह-तैजससद्रव्याणि पश्यतोऽसंख्येया द्वीपसमुद्राः कालश्चासंख्येया
॥७
॥
JainEducation Inted
For Privale & Personal use only
IAinelibrary.org