________________
श्रीधीरसुन्दरसू० आव० अवणिः
॥६९।।
प्रदीपशिखावत्, तीरथीनगतिशीलं गुरुलघुवाय्वादिवत् , निश्चलस्वभावं त्वगुरुलघु व्योमादिवत्, उक्तञ्च "गुरु लहुअं उभयं नोभयमिश्र वावहारिअनयस्स । दव्यं लेटु १ दीवो २ वाऊ ३ वोमं ४ च जहासंखं ॥१॥" निश्चयस्तु मन्यते नाऽयमेकान्तः अधोगमनस्वभाव गुर्वेव भवतीति, लघुनाऽप्यधोगतिपरिणतिनाऽणुना व्यभिचारात्, नार्ध्वगतिस्वभावं लध्वेव, एरण्डादिफलाना मुक्तानां चोर्ध्वगत्या व्यभिचारात् , तस्मादिह निश्चयनयमाश्रित्यौदारिकादीनि सूक्ष्मपरिणामत्वादगुरुलघुत्वेन चेति ॥४१।। वक्ष्यमाणगाथाद्वयसम्बन्ध एवं-पूर्व किल क्षेत्रकालसम्बधिनोः केवलयोरङगुड्लावलिकासंख्येयादिविभागकल्पनया परस्परोपनिबन्ध उक्तः, सम्प्रति तयोरेवोक्तलक्षणेन द्रव्येण सह परस्परोपनिबन्ध उपदयते
संखिज्ज मणोदव्वे. भागो लोगपलियस्स बोद्धव्यो॥
संखिज्ज कम्मदब्वे, लोए थोवणगं पलियं ॥४२॥ __ मनोवगणागतं-मनःपरिणामयोग्य मनोद्रव्यं पश्यन्नवधिः क्षेत्रतो लोकस्य संख्याततमं भाग, कालतस्तु पलयोपमस्य संख्याततमं भागं पश्यति, तथा कर्मवर्गणागतं कर्मपरिणामयोग्यं कर्मद्रव्य तद्विषयेऽवधौ संख्येया लोकपलयोपमयोर्भागा विषयत्वेन ज्ञेयाः, इदमुक्तं भवति-कर्मवर्गणाद्रव्य पश्यन्नवधिलॊकपल्योपमयोः पृथक पृथक संख्येयान भागान् पश्यति, लोकश्चतुर्दशरज्वात्मकः, लोकविषयेऽवधौ कालतः स्तोकोनं पल्योपमं विषयतया विज्ञेयं, इदमत्र | हृदयं क्षेत्रतः समस्तं लोकं पश्यन् कालतः स्तोकोन पल्थोपमं पश्यति, ननु द्रव्येण सह क्षेत्रकालयोरुपनिबन्धे
गाथा-४२
॥६९॥
For Private & Personal Use Only
Jain Education International
wranwr.jainelibrary.org