________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥६७||
वैचित्र्यकारणं तहुश्रुता एव विदन्ति, एवं तनुवर्गणानामपि भाव्यं, चतसृणां ध्रुववर्गणानामुपरि प्रत्येकमेकोत्तरवृद्धियुक्तानन्तवर्गणात्मिकाश्चतस्रस्तनुवर्गणा भवन्ति, तनूना-औदारिकादिशरीराणां भेदाभेदपरिणामाभ्यां योग्यत्वाभिमुखा वर्गणास्तनुवर्गणाः, भेदाभेदपरिणामाभ्यामिति कोऽर्थ ? यावद्धिपुद्गलैस्तनुवर्गणा स्कन्धा निष्पद्यन्ते तेभ्यो यदा केचित् पुद्गला विभिद्य पृथग् भवन्ति, अन्येत्वागन्तुकाः समागस्याभेदेन परिणमन्ति इत्याभ्यां भेदाभेदपरिणामाभ्यामेतास्तनुवर्गणा औदारिकादियोग्यबादरपरिणामाभिमुखा भवन्तीत्यर्थः, अथवा वक्ष्यमाणा मिश्रस्कन्धाचित्तस्कन्धद्वयस्य तनुः देहः शरीरं मूर्तिरिति यावत् तद्योग्यत्वाभिमुखा वर्गणास्त नुवर्गणाः, तदनन्तरं मिश्रः स्कन्धो भवति, सूक्ष्म एव सन् ईपद्वादरपरिणामाभिमुखः सूक्ष्मत्ववादरत्वपरिणाममिश्रणात् मिश्रस्कन्धः, तथेत्यानन्तर्ये, अचित्त इति पदैकदेशे पदसमुदायोपचाराद् अचित्तमहास्कन्धोः, स च विस्रसापरिणामवैचित्र्यात् केवलिसमुद्घातगत्या चतुर्भिः समयैः सकललोकमापूरयति, संहरणमपि चतुर्भिरवे, नन्वचित्तत्वाव्यभिचारादचित्तविशेषणमनर्थक, न केवलिसमुदघातसचित्तकर्मपुगदललोकव्यापि महास्कन्धव्यव्यच्छेदपरतया विशेषणस्य सार्थकत्वात् , एप एवाचित्तमहास्कन्धः सर्वोत्कृष्टप्रदेशस्कन्ध इति केचिद् व्याचक्षते तदसम्यक्, यतः प्रज्ञापनायामवगाहनस्थितिभ्यामसंख्येयभागहीनादिभेदाच्चतुः स्थानपतिता उक्ता उत्कृष्टपुद्गलनिवृत्ताः स्कन्धाः, अमी पुनरचित्तमहास्कन्धाः कालभेदेन बहवोऽपि जायमाना अवगाहनास्थितिभ्यां तुलया एव, यतस्तेषां सर्वेषां स्थितिरष्टसामयिका, अवगाहना चालोकव्याप्तिलक्षणा, किश्च
॥६७॥
Sain Education International
For Private & Personal use only
www.jainelibrary.org