SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्री धीरसुन्दरसू० ओव० अवचूर्णिः ॥६६॥ Jain Education Interna कर्मणान्ताः सर्वा एव वर्गणा वा इति ज्ञेयं, तासामपि सर्वत्र लोके सदैवाव्यवच्छेदात्, अन्यच्चैता ध्रुववर्गणा वक्ष्यमाणाश्चाधुवाः सर्वा अप्यग्रहणप्रायोग्या वर्गणा अतिबहुद्रव्योपचित्वेनातिसूक्ष्मपरिणामत्वेन च सर्वजीवैरौदारिकादिभावेनाग्रहणात् तदनंतरमित्थमेवैकोत्तरवृद्धया वर्द्धमाना ध्रुववर्गणाभ्य इतरा अध्रुववर्गणा अनन्ता भवन्ति, एताच तथाविधपुद्गल परिणावैचित्र्यात् कदाचिल्लोके न भवन्त्यपि तत एता अभुवा - अशाश्वत्यः कदाचिन्न सन्त्यपीति भाव:, तथा 'सुन्ना' इति सूचनात् सूत्रं, एकोत्तरवृद्धा कदाचित् शून्यानि - व्यवहितानि अन्तराणि यासां ताः शून्यान्तराः ताच वर्गणात्र शून्यान्तरवर्गणाः, एता एकोत्तरवृद्धया निरन्तरमनंताः सदैव प्राप्यन्ते परं कदाचिदेतास्वेकोत्तरवृद्धिरन्तरान्तरा त्रुति एताः शून्यान्तरवर्गणा अप्यनन्ताः इतरग्रहणादशून्यान्तर वर्गणा गृह्यन्ते, एता ह्येोत्तरवृद्धथा निरन्तरमेव लोके सदैव प्राप्यन्ते न पुनरेकोत्तरवृद्धिहानिरपान्तराले, तत एता अशून्यान्तरवर्गणाः प्रदेशोत्तरवृद्धयाऽनन्ताः, अशून्यान्तरावर्गणानामुपरि भवानन्तराणि चत्वारि वर्गणा द्रव्याणि भवन्ति, ध्रुवाणि च सर्वकालभाविच्वादनन्तराणि च निरन्तरैकोत्तरवृद्धिभावत्वात् ध्रुवानन्तराणि किमुक्त' भवति ? आद्या ध्रुवानन्तरवर्गणाः प्रथमतोऽनंता भवन्ति, तदनन्तरमेतावत्यो द्वितीयाः, ततस्तृतीयास्ततश्चतुर्थ्यां वाच्याः, ध्रुववर्गणाः प्रागप्युक्ताः परं ताभ्य एता भिन्न एव, न पुनस्तास्वन्तर्भवन्ति, अतिसूक्ष्मपरिणामत्वाद बहुद्रव्योपचितत्वाच्च, एतासां चतसृणां ध्रुववर्गणानां प्रत्येकमपान्तराले एकोत्तरवृद्धिहानिर्ज्ञेया, अन्यथा निरन्तरमेकोत्तरवृद्धिसंभवे चातुर्विध्यासंभवात् अन्यद्वा किञ्चिद्वर्णादि For Private & Personal Use Only गाथा - ३ गाथा -४० ॥६६॥ nelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy