________________
श्रीधीरसुन्दरसू० आव०अवचूणिः
॥६५॥
स्कन्धानां संख्येया वर्गणाः, असंख्येयप्रदेशावगाहिनां स्कन्धानामसंख्येयाः, ताश्चैकैकाकाशप्रदेशवृद्धथा बर्द्धमानाः खलु असंख्येया वर्गणाः विलय कर्मणः प्रायोग्या असंख्येया वर्गणा भवन्ति, ततोऽनन्तरमलपपरमाणुनिष्पन्नत्वाद बादरपरिमाणत्वेन बाह्याकाशप्रदेशावगाहित्वाच्च तस्यैव कर्मणोऽग्रहणप्रायोग्या एकैकाकाशप्रदेशवृद्धथा असंख्येया वर्गणाः, एवमेककाकाशप्रदेशवृद्धथा बर्द्धमाना मनसोऽप्यसंख्येया अग्रहणवर्गणाः, पुनरेतावत्य एव तस्य ग्रहणयोग्या वर्गणाः. पुनरेतावत्प्रमाणा एव तस्यैवाग्रहणप्रायोग्या वगणाः, एवमानप्राणयोर्भाषायास्तैजसस्याहारकस्य क्रियस्यौदारिकस्य चायोग्ययोग्यावर्गणानां प्रतिलोम क्षेत्रतोऽपि प्रत्येकं त्रयं त्रयमायोज्यं, परं परं सूक्ष्म, प्रदेशतोऽसंख्येयगुण'मिति (तच्चा. अ. २. सू. ३८-३९) ।। अनन्तरगाथायां कर्मद्रव्यवर्गणाः प्रतिपादिताः,
सम्प्रति प्रदेशोत्तरवृद्धथा तदग्रहणप्रायोग्याः प्रदर्श्यन्ते-क्रियते-मिथ्यात्वादिसचिवै निर्वयते इति कर्म, कर्मण उपरि कर्मोपरि, 'नाम नाम्नकार्ये समासो बहुल' मिति समासः, कर्माग्रहणग्रायोग्यवर्गणानामुपरीति भावः, ध्रुवेति ध्रुववर्गणा अनन्ता, तद्यथा-कांग्रहणप्रायोग्यवर्गणानामुपरि एकाधिकपरमाणूपचितातिसूक्ष्मपरिणामाऽनन्तपरमाण्वात्मिका प्रथमा ध्रुववर्गणा भवति, एकोत्तरवृद्धया वर्द्धमाना एता अपि ध्रुववर्गणाऽनन्ता ज्ञेयाः, धवा इति नित्या. लोकव्यापितया सर्वकालावस्थायिन्य इति भावः, अन्तदीपकं चेदं, एतासां ध्रुवत्वभणनेन प्रागुक्ता अपि
गोथा-४
॥६५॥
Jain Education International
For Privale & Personal Use Only
www.jainelibrary.org