________________
पिठिका।
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥३॥
गुरुपर्वलक्षणस्तु सम्बन्ध उपोद्धातनियुक्तौ "उद्देसे निद्देसे य निग्गमे" इत्यादिना ग्रन्थेन स्वयमेव नियुक्तिकृता प्रपञ्चेन वक्ष्यते । सम्प्रति मङ्गलमुच्यते, तच मङ्गल शास्त्रस्यादौ मध्येऽवसाने च । वक्ष्यते, ननु न युको मङ्गलत्रयोपन्यासः, आदिमङ्गलेनैवाभिष्टार्थस्य सिद्धत्वात् , न, आदिमङ्गलमात्रेणामीष्टार्थसिद्धयोगात् , तथाहि आदिमङ्गलं विनेयाः विवक्षितशास्त्रस्य पारङ्गच्छेयुरित्येवमर्थ मध्यमङ्गलमववगृहीतशास्त्र स्थिरीकरणार्थ, अन्त्यमङ्गलं शिष्यप्रशिष्यपरम्परया शास्त्रस्याव्यवच्छेदार्थ, तत्रादि मङ्गलं "आभिणियोहि अनाग" मित्यादि ज्ञानफश्चकस्य परममङ्गलत्वात् । मध्यमङ्गलं "वंदणचिइकिइक्कम्म" मित्यादि, बन्दनस्य विनयरूपत्वात्तस्याभ्यन्तरतपोभेदत्वात्तस्य च मङ्गलचात्, पर्यन्तमङ्गलं "पञ्चक्खाण" मित्यादि, प्रत्याख्यानस्याद्यतपोभेदत्वेन मङ्गलत्वात् । तत्रादिमङ्गलमुच्यते, तच ज्ञानपञ्चकरूपं, यतः
आभिणिवोहियनाणं सुयनाणं चेव ओहिनाणं च ।
तह मणपजवनाणं केवलनाणं च पंचमयं ॥१॥ नि० अर्थाभिमुखो नियतः प्रतिनियतस्वरूपो बोधोऽमिनिबोध एव विनयादित्वात स्वार्थेकणि आभिनियोधिकं, यद्वा भिनिबुध्यतेऽनेनास्मादस्मिन् इत्यभिनिवोधः, तदावरणकर्मक्षयोपशमस्तेन निवृत्तं आभिनिबोधिकं, तच्चतज्झानं चेति समासः, इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषय, स्फुटः प्रतिभासो बोधविशेष इत्यर्थः । श्रवणं श्रुतं वाच्य| वाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणहेतुरूपलद्धिविशेषः, एवमाकारकं वस्तु जलधारणार्थक्रियासमर्थ 'घट' शब्द
गाथा-१
॥३॥
wrwww.ininelibrary.org
For Private & Personal Use Only
Jain Education International